SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ यः साधनेषु सकलेषु समेषु सत्सु , भेदः फले भवति कारणयो गतो वै । गौरेषु बन्धुषु समेषु यः कृष्ण एकः , ___ संदृश्यतेऽत्र विषयाशनमेव हेतुः ॥ १० । बूषे तु कारणमिदं यदि दृष्टमेव , विद्वांस्तदात्र पतति व्यभिचारदोषः । तत् कार्मणं ननु शरीरमुदीर्यतेऽत्र , यत् स्यात् भवान्तरविधानसहायभूतम् ।। ११ ।। यस्माद् विनान्य तनु सम्भव एव नास्ति , एवं विचारय विवेकधिया स्वचित्ते । . मूतं विहाय ननु मूर्तमिदं हि वस्तु , साद्धं तु केन वद गच्छतु नैजयोगम् ॥ १२ ॥ सा का क्रिया फलवती न भवेद् द्विजेन्द्र ! , या चेतनेन विहिता न हता यदि स्यात् । तस्माच्छ भाशुभकृतेः परिणाम एव , कर्मोच्यते कृषिकृतेरिवधान्यमार्य ॥ १३ ॥ कोत्तिस्तु दानफलमस्तु पशोर्वधस्य , मांसाशनं फलमिति त्वयका विचार्य । धान्यं यथा विबुध ! दृष्ट फलैव नोह्या , एषा क्रियात्र शृणु मे गदतो हि वाचम् ॥ १४ ॥ ( १४ )
SR No.002334
Book TitleGandharwad Kavyam
Original Sutra AuthorN/A
AuthorSushilsuri
PublisherSushilsuri Jain Gyanmandiram
Publication Year1987
Total Pages442
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy