SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ [ "] राजप्रसादवन्तो राजोत्थासैनिकाः ‘माडम्बिकाः' मडम्बाधिपतयो मडम्बं च-योजनद्वयाभ्यन्तरेऽविद्यमानप्रामादिनिवेशः सन्निवेशविशेषः शेषाः प्रसिद्धाः, ॥ कज्जेसु' त्ति कार्येषु-प्रयोजनेषु अनिप्पन्नेषु 'कारणेसु 'त्ति सि साधयिषितप्रयोजनोपायेषु विषयभूतेषु ये मन्त्रादयो व्यवहारान्तास्तेषु, तत्र मन्त्राः-पर्यालोचनानि गुह्यानि-रहस्यानि निश्चयाः-वस्तुनिर्णयाः व्यवहाराः-विवादास्तेषु विषयेषु ॥ 'एयकम्मे' एतद्धयापारः एतदेव वा काम्यं-कमनीयं यस्य स तथा, 'एयप्पहाणे ' त्ति एतत्प्रधानः एतन्निष्ठा इत्यर्थः, 'एयविज्जे' त्ति एषैव विद्या-विज्ञानं यस्य स तथा ' एयसामायारे ' त्ति एतज्जीतकल्प इत्यर्थः 'पावकम्मं ' ति अशुभं-ज्ञानावरणादि ‘कलि- . कलुसं ' ति कलहहेतुकलुषं मलीमसमित्यर्थः ॥ जमगसमगं 'ति युगपत् 'रोगायंक' त्ति रोगा-व्याधयस्त एवातङ्काः-कष्टजीवितकारिणः । 'सासे' इत्यादि श्लोकः, 'जोणिसूले त्ति अपपाठः ‘कुच्छिसूले' इत्यस्यान्यत्र दर्शनात् , 'भगंदले 'त्ति भगन्दरः ‘अकारए' त्ति अरोचकः, 'अच्छिवेयणा' इत्यादि श्लोकातिरिक्तं, 'उदरे' त्ति जलोदरं । शृङ्गाटकादयः स्थानविशेषाः । [पृ. ११ ] 'विज्जो' त्ति वैद्यशास्त्रे चिकित्सायां च कुशलः 'विज्जपुत्तो व 'त्ति तत्पुत्रः · जाणुओ व 'त्ति ज्ञायकः-केवलशास्त्रकुशल: 'तेगिच्छिओ व 'त्ति चिकित्सामात्रकुशलः 'अत्यसंपयाणं दलयइ 'त्ति अर्थदानं करोतीत्यर्थः,
SR No.002313
Book TitleVivagsuyam
Original Sutra AuthorN/A
AuthorMadhusudan Modi
PublisherGurjar Granth Ratna Karyalay
Publication Year1935
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy