SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ अष्टादशः सर्गः । प्रपूज्यमानो विजहार पूज्यः ॥ ५१ ॥ " वारणेन्द्रो गजेन्द्र इव द्रुमाणां तरूणां वृन्दम्, तथा वर्त्मनि मार्गे, दुर्मतीनां कुमतीनां वृन्दम्, उन्मूलयन, पुनः, पदे पदे स्थाने स्थाने, जनौघैः किं०, भूरिधनैर्महाधनैः प्रपूज्यमानः स पूज्यः, विजहार विहृतवानिति । अयमुपजातेर्नवमः प्रकारइति ॥ ५१ ॥ , अथ क्रमात् स क्रमविद् नितान्ता - ऽनघेन सङ्केन समं शमीशः । श्रीराम सैन्यं समवाप पापा पहं ननाम प्रथमं च नाथम् ॥ ५२ ॥ अथ विहरन् महम्मदाबाद नगरपाटकादिषु श्रीपार्श्वनाथश्रीदधिपद्रीयशान्तिनाथप्रमुखदेवान् प्रणम्य क्रमात् स गुरुः, किं०, क्रमः कल्प आचारस्तद्वेता, सङ्केन किं०, नितान्तं नित्यमनघेन निर्मलेन, समं सार्धं, शमीशः साधुराद, श्रीरामसैन्यं समवाप प्राप्त इति च पुनः, तत्र प्रथमं नाथं श्री ऋषभदेवं, किं०, पापापहं दुरितध्वंसिनम्, ननामेति नमश्चकारेत्यर्थः । उपजातेस्तृतीयोऽयं प्रकारः ॥ ५२ ॥ प्रमोदपूर्णानन पुण्डरीका उपासकास्ते विभवव्ययोत्काः । ६२७ प्रपञ्चाञ्चकुरथो विचित्र भङ्गीसिरच प्रथमाप्तभर्तुः ॥ ५३ ॥ अथो ते उपासकः श्रावका राजधन्यपुरीयाः, किं०, प्रमोदेन संमदेन पूर्णमाननपुण्डरीकं मुखकमलं येषां ते पुनः किं०, विभवव्यये धनत्यागे उत्का उत्सुकाः, विचित्रभङ्गीभि
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy