SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ अष्टादशः सर्गः . . ६१९ नीरं बहुप्रीतिमवाप विश्वम् ॥ ३२ ॥ . पुनः, तत्र प्रवेशोत्सवे, जनेषु श्राद्धलोकेषु, किं कुर्वाणेषु, ददानेषु, कम् , अर्थ वित्तं, किं०, अनर्थस्य आलस्य यः सार्थः समूहस्तस्योन्माथो मथनं यस्मात्तह, केषामित्याह-अर्थार्थिनां धनार्थिनां याचकानामिति गम्यम् , दृष्टान्तमाह-इव यथा, नीरदेषु मेघेषु, नभोऽम्बुपानां वप्पीहानां, नीरं वारि, ददानेषु सत्सु, विश्वं जगत् बहुप्रीतिं परमप्रमोदम् अवाप प्रापेति,अयं छन्दोभेद उपजातीनां चतुर्दशसु भेदेषु छन्दोऽनुशासनविवरणोदितेषु सप्तमो भेदइति ॥ ३२॥ इत्याद्यतुच्छोत्सवधोरणीमयं श्रीराजधन्याह्वपुरं सदोदयम् । स्वामी सुराणाममरावतीमिवा विशद् गुरुर्वैबुधवृन्दबन्धुरः ॥ ३३ ॥ इत्यादयो ये वर्णिता अतुच्छोत्सवाः पूर्णमहोत्सवास्तेषा या धोरणी श्रेणी तन्मयं श्रीराजधन्याहपुरम् , पुनः, सदोदयं सुगमम् , अमरावतीम् इन्द्रपुरी, यथा सुराणां स्वामी शक्रः, तथा गुरुः,कि०, वैबुधन्देन एकत्र निर्जरगणेन, अन्यत्र पण्डितसम्बन्धिसमूहेन वन्धुरो रम्य इति, गुरुः पण्डितव्रातपरिवृतः प्राविशदिति । अयं इन्द्रवंशावंशस्थयोरष्टमोपजातिप्रकारः ॥३३॥ • अथ स्थितानां महिमागुरूणां श्रियां पुरे तत्र पुरे गुरूणाम् । उल्लासभाग् वाग्भिरभूद् मनुष्य लोकोऽब्दनादैरिव बहिबालः ॥ ३४ ॥ अथानन्तरं तत्र पुरे, कि०, श्रियां श्रीणां पुरे गृहे, गुरूणां
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy