SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३४ विजयप्रशस्त्याम् । तत्र यः पादपचयस्तरुनिकरः, तत्रस्था ये वयःस्था युवानः; क्रीडार्थमागता इति गम्यम् । तेषां यद् हृन्दं तस्य, नेत्र द्विरेफललनाय लोचनालिखेलनाय, किमम्बुजानि कमलानीत्यर्थः ॥ ४०॥ यत्रावलोक्य कनकोत्करमर्कतकै रात्नं प्रभापटलपेशलमुच्चयं च । अखनभूमिभृति रोहणभूधरे च प्रावेति सत्यमभिधानममानि लोकैः ॥४१॥ यत्र यस्यां पुरि, कनकोत्करं काश्चननिचयम् । किं० अर्क: सूर्यस्तस्य तर्कः उपहासो यस्मात्तम् ; भृशमाभास्वरत्वात् । च पुनः, राममुच्चयं मणिगणम्, किं० प्रभापटलेन ज्योतिर्जालेन, पेशलं रुचिरम्, अवलोक्य निभाल्य, अस्वमभूमिभृति मेरौ, रोहणभूघरे च रोहणनाम्नि गिरौ, लोकैर्ग्रावेति अभिधानं नाम, सत्यं सूनृतम्, अमानि मेने । ग्रावा पर्वतः पाषाणचेति वचनच्छलात् पाषाण एवेति, यतो हेमरत्नरूपस्य तत्सारभूतस्यात्र सद्भावादिति भावार्थः ॥४१॥ वीथीषु यत्र मृगशावदृशो व्रजन्त्यः पीनस्तनत्रुटितमध्यगुणप्रचारम् । नैवाविदन् पतितमप्यवनौ स्वहारं लीलास्मितद्युतिषु सूत्रितमौक्तिकाशाः ॥४२॥ यत्र नगर्यो, मृगशावदृशः सारङ्गदारकलोचनाः, वीथीषु
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy