SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः। ४२३ शं सुखं, वशभाग् भावि गच्छतां पुंसां सुखं स्वाधीनं भविष्यतीतिमूचिनी ॥ ८॥ कट्यारूढक्षीरकण्ठा सहेला महिलाऽमिलत् । अङ्कारोपितमीनाङ्का साक्षात् सिन्धोरिवाऽङ्गजा ॥९॥ . कट्या कटितटे आरूढः क्षीरकण्ठो बालो यस्याः सा, सहेला सलीला, महिला स्त्री, अमिलद् मिलिता, अङ्कारोपितमीनाङ्का उत्सङ्गेऽन्तिके वा स्थापितमकरध्वजा, साक्षान्मूर्तिमती सिन्धोरङ्गजा लक्ष्मीरिवेति ॥ ९॥ वामतोऽथाऽब्रवीद् बाढं खरोऽखरतरस्वरः । श्रेयः सपरिवारस्य प्रतिष्ठासोः पथीतिदृक् ॥१०॥ अथ खरो रासभः, किं०, अखरतरोऽनिष्ठुरतमः स्वरो यस्य सः, वाढमतिशयेन स्वराष्टकेन, अब्रवीत् , सपरिवारस्य प्रतिष्ठासोश्विचलिपोः पुंसः, पथि श्रेयो भावीति सूचयन्ती दृग् बुद्धिर्यस्य सः॥१०॥ . अवदत् तित्तिरिस्तारं वामोऽवामदिशि स्थितः। प्रस्थाने स्थानमत्र स्युनराः श्रीणामितीद्धवाक् ॥११॥ अवामादिशि अनुकूलदिशि शान्तदिशीति यावत् , स्थितस्तित्तिरिः पक्षी, तारस्वरं वामोऽवदत् , अत्र प्रस्थाने गमने, . नराः श्रीणां स्थानं स्युरिति इद्धवाक् पटुवचाः ॥ ११ ॥ प्रपूर्णपात्रा पक्वान्नैः समभ्येति स्म योगिनी । उदयोदयेतिवाग्भिरध्वन्यानां जयावहा ॥१२॥ पकानैः प्रपूर्णपात्रा योगिनी प्रवाजिका, समभ्येति स्म
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy