SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३३० विजयप्रशस्त्याम् । बखानाख्यं नृपमुख्यम्, अथ सोऽपि ज्ञातोदन्तः श्रीगुरून मन्धारबन्दिरे स्थितान् मत्वा तान् शाहिसेवकान् गुरुपार्श्वे प्राहिणोदिति शेषः ॥ १८ ॥ जातावतारा जगतां हिताय ते मुनीश्वराः कल्पितकल्पपादपाः । हवं नरेशस्य निशम्य सादरं तदाऽभवंस्तत्र विहर्तुमुत्सुकाः ॥ १९ ॥ तदा तच्छाहिफ़रमानं चाचयित्वा ते मुनीश्वरा गुरवः, किं०, जगतां हिताय जातावताराः, पुनः, कल्पिते कल्पपादपाः नरेशस्याऽकब्बरस्य, हवं आह्वानं, निशम्याऽऽकर्ण्य, तत्र विह उत्सुका अभवन् गन्धारवन्दिराच्चतुर्मासकपारणके इति शेषः ॥ १९ ॥ अथ काव्यकलापकेन फतेपुरागमनं वर्णयति— पदे पदे प्रौढमहोत्सवोत्सुकैर्जनैः प्रदत्ताद्भुतमानसंपदः । पदे पदे खस्तिकमुक्त मौक्तिकैर्वधूजनैर्मण्डितमङ्गलालयः ॥ २० ॥ पदे पदे सत्वरसंमुखागतैर्षराधिपैः सूत्रितसुन्दरादराः । पदे पदे प्राप्तघनार्थ संचयैः सदर्थिभिर्गीतमनोज्ञगीतयः ॥ २१ ॥ रजोभिरंहयुच्छलितैर्भुवस्तलं
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy