SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ अष्टमः सर्गः ३०७ अन्यत्र व सुमनसा सुराणां, सुखाय जज्ञे जात इति दृष्टान्वः॥ २७॥ न्यक्षर्षिभर्ना गुरुणाऽमुना च शिष्येण चानेन नवोदयेन । द्वाभ्यां गणोऽसौ शुशुभे वसन्त ___ इवोल्लसंश्चैत्रिकमाधवाभ्याम् ॥ २८ ॥ न्यक्षर्षिभर्ना समस्तसाधुखामिना, अमुना गुरुणा च पुनरनेन नवोदयेन शिष्येणेति अत्र द्वौ चकारौ योस्तुल्यत्वसूचको द्वाभ्यामेताभ्यां असौ गणः शुशुभे, यथा वसन्त - पैत्रिकमाधवाभ्यां चैत्रवैशासाभ्यामिव, इति दृष्टान्तः ॥२८॥ अस्मिन्ननूचानपतौ गणस्या नुज्ञामुपेते ववृधे विशेषात् । श्रीदर्शनज्ञानचरित्रमूलं वेलेव चन्द्रेऽभ्युदयं पयोधेः ॥ २९ ॥ अस्मिन् आचार्यपतौ मणानुन उपेते मासे, सति दर्शनहानचरित्रमूलं दर्शन सम्यक्त्वं ज्ञानं मतिश्रुताभ्यासरूपं चरित्रं संयमस्तेषां मूलं बीजं श्रीस्तपगच्छसंपत्, वधे वृद्धिमती जाता, पयोधर्वेलेव चन्द्रेऽभ्युदयं मासे सति यथा वृद्धिपती तथेति दृष्टान्तः ॥२९॥ श्रीमत्यनूचान इते गणस्या नुज्ञां मनोज्ञामुदयैकमूलम् । गच्छोऽयमुल्लासभृदाशु चासीत् पूर्वाद्रिमंशाविव जीवलोकः ॥ ३०॥
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy