SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २४८ विजयप्रशस्त्वाम् । न्वयः।सुरराजराज्यं हि शक्रराज्यं कि०,सप्तर्षिभिर्भूषितः समाजः सभा यत्र तत्, पुनः कि०, एकः सौम्यो बुधो यत्र तत् , पुनः कि०, दोषज्ञयोद्ययोरर्थात् स्ववैद्ययोर्यद् युग्मं तेन सुभगं, पुनः कि०, धनदस्य कुबेरस्य यदैक्यं तेन हारि रम्यं यस्य राज्येन, किंविशिष्टेन, तत्तद्वहुत्वं तेषां उक्तविशेषणानां यद्बहुत्वं वाहुल्यं ऋषीणां बहुत्वं, सौम्यानां अनुग्राणां बहुत्वं, दोषज्ञानां प्राज्ञानां बहुत्वं, धनदानां श्रीदायिनां बहुत्वं तेन तत्तद्बहुत्वसहितेन यद्राज्येन महेन्द्रराज्यं न साम्यमेतीति भावार्थः ॥ ४० ॥ कालिन्दिकासलिलकज्जलजालकाले ऽङ्गारत्वमञ्चति कुवाद्ययशःप्रपञ्चे । कुन्देन्दुकम्बुकुमुदाकरभासि यस्य राज्ये स्थिरत्वमनिशं धनसार आसीत् ॥४१॥ यस्य गुरोः, राज्ये घनसारे यद्राज्यकर्पूरे, किं०, कुन्देन्दुकम्बुकुमुदाकरभासि कुन्दकुसुमशीतांशुशङ्खकैरवनिकरकान्तो, अनिशं स्थिरत्वं स्थैर्यम् , आसीत् इत्यन्वयः । क सति, कुवाद्ययशःप्रपञ्चे दुर्वाद्यकीर्तिविस्तारे, अङ्गारत्वं अञ्चति सति अङ्गारतां गच्छतीत्यर्थः । कि०, कालिन्दिकासलिलकज्जलजालकाले यमुनाजलाञ्जनपुञ्जश्यामले; एतावता दुर्वाद्ययशोऽङ्गारेण सह सअतिमागतो यद्राज्यकर्पूरः स्थैर्यभागभूदिति भावः ॥४१॥ भीमत्वभाजि बहुदुःसहतैकपात्रे ग्रीष्मेऽम्भसामिव वेरिव भासि भानाम् । ‘दुर्ध्यानदुर्गतिदुराग्रहदुर्मतीनां यद्वैभवे स्फुरति फल्गुदृशामसत्ता ॥ ४२ ॥ यद्वैभवे यस्य गुरोः साम्राज्ये स्फुरति सति, फल्गुदृशां
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy