SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ विजयप्रशस्त्याम् । इत्यादिद्यतमभाविमहोदयश्रीसंसूचनेन सुभगैर्विहगैः शुभेऽह्नि । आचार्यहीरविजय मिहीमहेन्द्र पादौ ननाम जयसिंहमुनिर्महात्मा ॥ १९ ॥ इत्यादि हृद्यतमं मनोहरतरं यद् भाविमहोदय श्रीसंसूचनं भविष्यद्गच्छैश्वर्यलक्ष्मीज्ञापनं, तेन सुभगै रम्यैः, विहगैः शकुनैः, शुभेऽह्नि दिने, आचार्यश्वासौ हीरविजयर्षिमहीमहेन्द्रो मुनिराजस्तस्य पादौ क्रमों, महात्मा जयसिंहमुनिर्ननामानमत् ॥ १९ ॥ भाति स्म हीरविजयैर्व्रतिवृन्दचन्द्रैयस्तोऽस्य मूर्धनि नते खकरोऽपसव्यः । देया ध्रुवं त्रिजगतः प्रभुतानिदानं २३८ स्वाऽस्माभिरस्य पदवी प्रतिभूरिवेति ॥ २० ॥ व्रतिवृन्दचन्द्रैहींरविजयैः श्रीहीरविजयसूरीन्द्रैः, अस्य मूर्द्धनि, किं० नंते प्रणतिकृति, अपसव्यो दक्षिणः, करो न्यस्तः सन् भाति स्मेत्यन्वयः । ध्रुवं नूनं, त्रिजगतः प्रभुताया निदानं बीजं, स्वा स्वकीया, पदवी अस्माभिरस्य देया इति प्रतिभूः साक्षीवेत्यर्थः ॥ २० ॥ शिष्यं निरीक्ष्य जयसिंहमुनिं मनखि - मुख्यं मुदां भरमवापुरमी मुनीन्द्राः । पूर्ण कलाभिरखिलाभिरुषाधिनाथ मापः प्रभोरिव पयोधिनितम्बिनीनाम् ||२१|| मनस्विमुख्यं सहृदयश्रेष्ठ, जयसिंहमुनिं शिष्यं निरीक्ष्यामी मुनीन्द्राः श्रीहीरविजयाचार्याः, मुदां भरं हर्षप्रकर्ष,
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy