SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २१६ विजयप्रशस्त्याम् । शोभितः सुभगमौक्तिकरत्न स्वर्णभूषणगणेन यथाऽहम् । हेमतन्तुततदिव्यदुकूलः श्रीतनूज इव रूपसुरूपः ॥ ६ ॥ दीक्षादिने जयसिंहकुमारः, कीदृशः, सुभगमौक्तिकरत्नस्वर्णभूषणगणेन यथाऽर्ह शोभितो राजितः, पुनः कि०, हेमतन्तुभिस्ततं विस्तीर्ण वा, निर्मितं वा दिव्यं दुकूलं यस्य सः। उत्प्रेक्ष्यते--श्रीतनूजः कन्दर्प इव, किं०, रूपेण सुरूपो रम्यः, " सुरूषस्तु बुधे रम्ये " इत्यनेकार्थत्वात् ॥ ६ ॥ ईदृक् कः किं च कृतदानित्याह नागजारुणशिरस्कमथोच्चं ___ कुम्भिनं कनकशृङ्खलकान्तम् । आरुरोह जयसिंहकुमारः पूर्वपर्वतमिवाम्बुजबन्धुः ॥ ६१ ॥ स जयसिंहकुमारः, कुम्भिनं गज, आरुरोहेत्यन्वयः । कि० गज, नागजारुणशिरस्कं सिन्दररक्तशीर्ष, पुनः, उच्चं तुझं, पुनः, कनकशृङ्खलेन कान्तम् । दृष्टान्तमत्राह-पूर्वपर्वतं उदयाचलं, अब्जबन्धुः सूर्य इव । इति युग्मव्याख्या ॥ ६१॥ पद्ममस्य कमलाङ्कितमास्यं तेन नौ घटत एतदुपास्तिः । चामरच्छलत आशु मराला वित्यवेत्य तमिवाऽऽगतवन्तौ॥ ६२ ॥ अस्य जयसिंहस्य, आस्यं मुखं, कमलया लक्ष्म्या अङ्कि
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy