SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ बिजयप्रशस्त्याम् । वाग्दृक्षु पूज्यामलपंशलासु । संचक्रमुर्यन्मिलिताखिमाखऽनश्यन्नघव्याधिधनार्तयो द्राक् ॥ ४६ ॥ गङ्गासुधे प्रसिद्धं, अम्भोधिसुता लक्ष्मीरेतास्तिस्रः, यदहिवारदृक्षु येषां श्रीविजयदानमूरीणां अंही पादौ, वाग् वाणी, ग् दृष्टिस्तासु यद्दिवाग्दृक्षुः किं०, पूज्यामलपेशलासु महनी - यनिर्मलमनोहरासु, क्रमेणेदं विशेषणत्रयं स्थानकत्रिके स्थापनीयम्; संचक्रमुर्मिलिताः । कथमवगतमिति चेत् । उच्यते । यस्मात्कारणात् इमासु अंहिवागदृक्षु, मिलितासु सतीषु, अघानि पापानि, व्याधय भावरोगाः, धनार्तयथ निर्धनत्वपीडाः अघव्याधिधनार्तयः पातककर्मामयदारिद्र्याणिः अनश्यनेशुः । अंड्रिपूजकानां वाकश्रोतॄणां दृशा विलोकनविषयीकृतानां मानवानामिति शेषः ॥ ४६ ॥ २३८ भुस्तमां ये तमसां प्रपञ्च मपि स्खलन्तस्तपना नवीनाः । पद्मोत्सवायोदयमप्यवाप्ता मुदेऽभवन् कौशिकचक्षुषां यत् ॥ ४७ ॥ ये पूज्याः, तमसां अन्धकाराणां पापानां वा प्रपञ्चं विस्वारं, स्खलन्तोऽपि नाशयन्तोऽपि, नवीनास्तपना नूतनाः सूर्याः, बभ्रुस्तमां भृशं भान्ति स्मेत्यन्वयः । पश्चिमार्द्धेन तदेव दृढयति-यदिति यस्माद्धेतोः, पद्मानां पङ्कजानां पद्माया लक्ष्म्याचीत्सवाय, उदयं आप्ताः प्राप्ता अपि कौशिकचक्षुषां घूकनयनानां मुदेऽभवन्नासन्; अयं विरोधः, तत्परिहारस्तु “कौशिकः शुक्र
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy