SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः । अथ द्वाविंशत्या वृत्तैर्जयसिंहकुमारस्य बालचापल्यपुष्टितुष्टिचेष्टापांशुक्रीडादिकं कविर्वर्णयति — स मातुरुत्सङ्गमभङ्गरङ्गवृत्तेर्दुकूलाञ्चलशालिलीलः । विभूषयन् मूर्त इव प्रमोदः कदाचिदत्यद्भुतमूर्त्तिरस्थात् ॥ ५३ ॥ ८५ स बालः कदाचिदिति कस्मिंश्चित्समये, अभङ्गरगे वृत्तिः प्रवृत्तिर्यस्यास्तस्याः, मातुः कोडिमदेव्याः, उत्सङ्गमङ्क, विभूषयन्नस्थात् तस्थौ । स किं० दुकूलाञ्चलेन शालिनी शोभमाना लीला केलिर्यस्य सः, अत एव पुनः किं० अत्यद्भुताऽत्याश्चर्यकारिणी मूर्त्तिर्यस्य सः । इवोत्प्रेक्ष्यते - मातुर्मुर्त्तो मूर्त्तिमान् प्रमोदोहर्ष इति ॥ ५३ ॥ स चारुचन्द्रोदयके दुकूलनिचोलकः कोमलतूलिकायाम् । रेमे गुहायामिव सिंहशावः श्रीपेशले पालनके कदाचित् ॥५४॥ स बालः, किं० दुकूलस्य निचोलः प्रच्छदपटो यस्य स दुकूलनिचोलकः, कदाचित् श्रिया शोभया, पेशले मनोहरे, पालनके, पुनः किं० चारुचन्द्रोदयके रम्यविताने रेमेऽरमत । कस्यामित्याह - कोमलतूलिकायां सुकुमालतूलशय्यायाम् ; दृष्टान्तोऽत्रइव यथा, गुहायां गिरिकन्दरायां, सिंहस्य शावो बालक इति ॥ ५४ ॥ विस्मेरपाथोरुहपेशलास्यः सचक्रचेतः प्रणयप्रणेता ।
SR No.002311
Book TitleVijayprashasti Mahakavyam
Original Sutra AuthorN/A
AuthorHemvijay Gani, Gunvijay Gani
PublisherJinshasan Aradhana Trust
Publication Year1991
Total Pages728
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy