________________
द्वितीय प्रकाश श्रीशान्तिखामिनश्चैत्यं तन्मध्ये च विनिर्ममे। तथैवोद्भासितं वर्णकलशैरुल्लसद्ध्वजैः॥१३५ ॥ प्रासादमौलिमारुह्य नृत्यन्त्याः सुकृतश्रियः। लोलं हस्तमिव प्रेक्ष्य तद्ध्वजं मुमुदे जनः ॥ १३६ ॥ तचारुतोरणस्तम्भभाजो वन्दनमालिकाः। लक्ष्म्याः खभावलोलायाः केलिदोलाकलां ललुः ॥१३७ ॥ चतुर्विधस्य सङ्घस्यानेकधा धर्मकर्मभिः।
तत्रैकच्छत्रमालोक्य साम्राज्यं धर्मभूपतेः ॥ १३८॥ मनोरथतरुर्जज्ञे श्रीगुरूणां फलेग्रहिः । तत्प्रत्यूहकृतां तत्रावकेशी कुदृशां पुनः ॥ १३९॥-युग्मम् । अन्यदा मूलनक्षत्रे वृद्धसूनोर्महीभुजः।। अभूत्तस्य कृपासिन्धोर्दुहिता दैवयोगतः ॥ १४०॥ तपितुः किंचिदादिष्टं कष्टं शिष्टजनैस्ततः। आहूय श्रीगुरून् प्रोचे श्रीशाहिः संसदि स्थितः ॥ १४१॥ विनध्वंसकृते कश्चित्पतीकारो विधीयताम् । महीशस्तैरिति प्रोचे ततस्तद्विघ्नशान्तये ॥ १४२॥ अष्टोत्तरशतलान विधानाजिनमंदिरे । विघ्नाः सर्वे विलीयन्ते तामसास्तरणेरिव ॥ १४३ ॥ जगाद जगतीजानिः प्रसन्नवदनस्ततः। त्वर्यतां त्वयंतामन विलम्बो नैव युज्यते ॥ १४४ ॥ द्रष्टुकामो भवत्लान्रविधि युष्मदुपाश्रये । अहमप्यागमिष्यामि शेखूजीसहितः स्वयम् ॥ १४५ ॥ तत्कृत्यकरणादेशः श्रीशाहेगुरुभिस्तदा। योग्योऽयमिति विज्ञाय थानसिंहस्य दापितः ॥ १४६ ॥ लम्बमानमणिमुक्ताजालैः स्वर्णाशुकैः पुनः । अथैत्य थानसिंहस्तं प्रतिश्रयमभूषयत् ॥ १४७ ॥ शिल्पिभिः कारितस्तत्र मण्डपश्च महीभुजः। श्रेयःश्रियं वरीतुं किं वयंवरणमण्डपः ॥ १४८॥ एतद्व्यतिकरेऽनेककौतुकालोकलालसा। त्रिलोकी चित्रदम्भेन मण्डपे किमुपेयुषी ॥ १४९ ॥ विस्तीर्णोऽपि स सङ्कीणों बभूवानेकनागरैः। भाविश्रीवाचकागण्यपुण्याकृष्टैरिवागतैः ॥ १५० ॥