SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ हर्षवर्धन-गणि-कृतं सदयवत्स-कथानकम रक्षणीयः सदा दक्षैः पुरेऽपि व्यसनी वसन् । पापानां व्यसनं मूलं पापं दुःख-ततिरिव ॥ ३७ धर्मस्याव्यसनं मूलं धर्मः सर्व-सुख-श्रियाम् । व्यसनैः सुखमिच्छन्ति मूढाः शैत्यमिवानलात् ॥ ३८ सर्व-व्यसन-मुक्तेषु युक्तेषु सुकृतोत्सवैः । पुरुषेषु त्वया तात रचनीया रतिस्ततः ॥ ३९ सत्सङ्गात् पूज्यता भवेद् । यतः शिरसा सुमनःसङ्गाद् धार्यन्ते तन्तवोऽपि हि । तेऽपि पादेन मृद्यन्ते पटेषु मल-संगतः ॥ ४० इत्यादि-शिक्षा प्रतिपद्य प्राह कुमारः-तात राज्ञां लक्ष्मीरअनन्ता । किं गण्यते । राजाचे-एवं-राज्ये चेद् बहु हेम स्यात् तदा महिष्याः शृङ्खला विधीयते । तैलं बहु चेत् तदा गिरयः स्निह्यन्ते। अमृतं बहु तदा पाद-शौचं विधीयते । एवं युक्तया वारितोऽपि न तिष्ठति। प्रतिवक्ति च - सुवर्णैः पटकूलैश्च शोभन्ते वारयोषितः । पराक्रमेण दानेन राजन्ते राज-नन्दनाः ॥४१ अनुकले विधौ देयं यतः परयिता हि सः । प्रतिकूले विशेषेण यतः सर्वं स नेष्यति ॥ ४२ दातव्यं भोक्तव्यं सति विभवे संचयो न कर्तव्यः । पश्येह मधुकरीणां संचितमर्थं हरन्त्यन्ये ॥ ४३ राजा पुनः प्राह द्यूत-पोषी निज-द्वेषी, धातु-वादी तथाऽलसः । आय-व्यय-मनालोची यस्तद्गेहे वसाम्यहम् ॥ ४४ इति दारिद्य वचनम् ॥ गुरवो यत्र पूज्यन्ते धान्यं यत्र सुसंचितम् । . अ-दन्त-कलहो यत्र तत्र शक्र वसाम्यहम् ॥ ४५ इदं लक्ष्मी-वचः । इत्यादि-वाक्-प्रपंचैर्निरुत्तरीकृतेन राज्ञा रुष्टेन स स्वसौधाद् बहिष्कृतः । यतः
SR No.002290
Book TitleSadyavatsa Kathanakam
Original Sutra AuthorN/A
AuthorPritam Singhvi
PublisherParshwa International Shaikshanik aur Shodhnishth Pratishthan
Publication Year1999
Total Pages114
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy