________________
(३७८) अनेकार्थसंग्रहः सटीक : द्वितीयो विभागः
अवश्यायो हिमे दपेऽप्यपसव्यन्तु दक्षिणे। प्रतिकूछेऽन्तशय्या भूशय्या पिलुवनं मृतिः ॥ २२१ ॥ । उपकार्या राजगेहमुपकारोचिताऽपि च । चन्द्रोदयो शश्युदयोल्मोचौं चन्द्रोदयौषधौ ।। २२२ ।। जलाशयमुशीरे स्याज्जलाशयो जलाश्रये । तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः ॥ २२३॥ .
. दीर्घद्वेषयोर्यथा-अभिधाय तदा तदप्रियं शिशुपालोऽनुशयं परं गतः । अनुबन्ध आसक्तिस्तत्र यथा-प्रविमुक्तानुशयो यदा मुनिः । दोषेऽपि । यथा-अनुशयशताघातं चेतो न पश्यति सत्पथं । अन्याहार्यसमावास्या श्रादमिष्टेश्च दक्षिणा । अन्वाहियतेऽन्वाहार्य ।। २२० ।। अवश्यायो हिमें"दपि । अश्यायतेऽवश्यायः । तन्व्यधीतिःणः । हिमे यथा-उपस्सु ववुराकृष्टजडावश्यायशीकराः । अपसव्यन्तु दक्षिणे, प्रतिकूले। सव्यादपगतं, अपसव्यम्, वाच्यलिङ्गः । दक्षिणे यथा-अपसव्येन पाणिना । अन्तशय्या भूशय्या पित वनं मृतिः । अन्ते शय्या अन्तशय्या । त्रिष्वपि यथा-न्याय्यान्तशय्या न सतां कदापि ॥ २२१ ॥ उपकार्या रांजगेहमुकारोचितापि च । उपक्रियते उपकार्या, राजगेहे पटमण्डपादिरूपे यथा-तस्योपकार्या रचितोपचारा वन्येत राजा न पदोपदाभिः । उपकारोचिते, अर्थे लाघवाथै स्त्रियां निर्देशः । अन्यथा तु वाच्यलिङ्गतैव । यथा-नैवोपकार्या सुजनैरनार्याः । चन्द्रोदयो (चन्द्रोदयौ) शश्युदयोल्लोचौ । चन्द्रस्योदयः, उदय इव, वा चन्द्रोदयः । द्वयोर्यथाचन्द्रोदयोद्भासितसन्निवेशः । चन्द्रोदयौषधौ । चन्द्रे उदयो यस्याश्चन्द्रोदया ।। २१२॥ जलाशयमुशीरे स्यात् । जले आशयो अस्य 'जलाशयम् । उशीरं वीरणीमूलम् । जलाशयो जलाश्रये । जलस्य आशयो जलाशयः ।
*
* अवसायोपयुक्तान्ये समाप्तो निश्चयेऽपि च / अवश्यायो ।
.........