________________
चतुर्थः काण्डः
(३५७) मेघनादो मेषशब्दे वरुणे रावणात्मजे । विशारदो बुधे धृष्टे विष्णुपदं नभोब्जयोः॥१४५।। विष्णुपदस्तु क्षीरोदे विष्णुपदी मुरापगा। संक्रान्तिद्वारका वापि समर्याद' तु सन्निधौ ॥१४॥ मर्यादया सहितेऽप्यनुबन्धोऽप्रयोगिणि ।
मुख्यानुयायिनि शिशौ प्रकृतस्यानुवर्तने ॥१४७॥ . पोठं मृद्नाति पीठमईः । अतिवियातो अतिधृष्टः । तत्र यथा-यौवनोन्मादलीलागोष्ठीनां पीठमईः । नाट्योक्त्या नायकप्रियो विदूषकप्रभृतिः पुटभेदस्तु नगरातोद्ययोस्तटिनीमुखे । पुटं भिनत्ति पुटभेदः ॥१४३।। महानादो वषुकाब्दे महाध्वाने शयानके । गजे च। महान्नादोऽस्य महानाद इति वा महानादः । शयानकोऽजगरः । मुचुकुन्दस्तु द्रुभेदे मुनिदैत्ययोः।। मुंचति मुचुकन्दः मुचिद्रुकुन्द कुकुन्दाविति किदि दु कुन्दः । इभेदे यथा-द्वित्रमुचुकुन्दकलिकास्त्रिचतुरमुकुलः क्रमेण लवलीषु । पंचषफलिनो कुसुमो जयति हिमनवावतारः ॥१४॥ मेघनादो मेघशब्दे वरूणे रावणामजे । मेघस्य नादो मेघस्येव नादोऽस्येति वा मेघनादः । रावणात्मजे यथा-सौमित्रे तिष्ठ पात्रं त्वमपि नहि रुषां न त्वहं मेघनादः । विशारदो बुधे धृष्टे । विशेषेण शारदस्य विशारदः । वाच्यलिङ्गः । द्वयोर्यथा-तां भवानी .... भवानीतां बिलेशनाशविशारदां। विष्णुपदं नभोब्जयोः। विष्णोः पद पदमिव वा विष्णुपदं॥१४५॥ नभसि यथा-क्रान्त्वा विष्णुपदं प्रयाति शनकैरस्ताचलं भास्करः। विष्णुपदस्तु क्षीरोदे । विष्णोः पदं यत्र विष्णुपदः। विष्णुपदी मुरापगा। संक्रान्ति द्वारकावापि । विष्णोः पादौ हेतुरस्या विष्णुपदी । कुम्भपयादिरिति साधः। सुरापगायां यथा-किम्बाकृष्टांघ्रिपद्मतिद्युतिभिररुणिता विष्णुपदयाःपदव्यः। समर्यादं तु सन्निधौ ॥१४६॥ मर्यादया सहितेऽपि ॥ मर्यादया सह वर्तते समर्यादं । सन्निधिन्नकट्यं । तत्र- क्लीबो तद्वति मर्यादया सहिते च १ शतहदा तु विधुति वज्रेऽपि च समर्यादा र प्रकृतक्यानुवत्ते च दोषस्यापादनेडपि च ।