________________
(३३८) अनेकाथसंग्रहः सटीक :: द्वितीयो विभागः
पणषोडशके चीर्णपर्णः खजूरनिम्बयोः ।। चूडामणिः काकचिंचाफले मूर्द्धमणावपि ॥७७॥ जुहुराणोऽध्वर्युबन्योः तण्डुरीणस्तु वर्वरे । तण्डुलाम्बुनिकीटे च तैलपर्णी तु सिहके ॥७८॥ श्रीवासे चन्दने दाक्षायण्युमायां च भेषु च । रोहिण्यां च देवमणिविष्णुवक्षो मणौ हरे ॥७९॥ अश्वस्य कण्ठावर्ते च नारायणस्तु केशवे ।
नारायणी शतावयुमाश्रोः निःसरणमृतौ ॥८॥ पंचाशत् शतसंख्यो वराटकमानविशेषः । द्वयोर्यथा-कर्षापणोऽपि कृपणस्य हिरण्यकोटिः । चीर्णपर्णः खरनिम्बयोः। चीण पर्णमस्य चीर्णपर्णः । चूडामणिः काकचिंचाफले मूर्द्धमणावपि चूडायां माणः चूडामणिः । तत्सदृशो वा । काकचिचा गुंजा। तत्फले। मूर्द्धमणौ यथा- बिभ्रद् ब्रह्मशिरः शिवाय जगतामेणाङ्कच्डामणिः।।७७॥जुहुराणोऽध्वर्यु वहन्योः। जुहोति यते वा जुहुराणः । मुमुचान युयुधानेति साधुः । तण्डुरीणस्तु वर्वरे । तण्डुलाम्बुनि कीटे च । तण्डुनां तण्डुलेषु वारीणः तण्डुरीणः । पृषोदरादित्वात् । तण्ड्यते वा । भ्रूणतृणेति साधुः । तैलपर्णी तु सिहके । श्रीवासे चन्दने । तैलं पर्णेऽस्यास्तैलपर्णी । पाककर्णेति डोः । श्रीवासः सरलद्रवः । दाक्षायण्युमायां च भेषु च । रोहिण्यां च । दक्षस्यापत्यं दाक्षिः । तस्यापत्यं स्त्री दाक्षायणी । अनन्तरापत्येऽपि पौत्राघुपचारात् । यजिन इत्यायनण् । जातेरयांतेति डीः । उमायां यथा-दाक्षायणीविभ्रमदेर्पणभिबालेन्दुखण्ड भवतः पुनातु । भेषु यथाक्षारोदार्णव सुक्तिमौक्तिकमयं दाक्षायणोनायकः । रौहिणो गौः । देवमणि विष्णुवक्षो मणौ हरे । अश्वस्य कण्ठावर्ते च । देवस्य मणिर्देवेषु मणिरिक देवर्माणसदृशो वा देवमणिः । विष्णुवक्षो मणौ अश्वकण्ठावर्ते च यथा-आवर्तिनः शुभफलप्रदशुक्तियुक्ताः सम्पन्नदेवमणयो भृतःन्ध्रभागः ॥७९॥ नारायणस्तु केशवे । नरानयते रम्यादित्वादनाट पूर्वपदस्थेति णत्वे स्वार्थेऽणि च नारायणः । यथा-त्ववृत्या शिथिलीकृतस्त्रिभुवनत्राणाय नारायणः । नारायणी शतावर्युमा