________________
६३३०) अनेकार्थसंग्रहः सटीक :: तृतीयो विभागः
विगाने दुर्नये राहावुपसर्गे उपद्रवे । प्रादौ रोगे च भेदे च कटभङ्गो नृपात्यये ॥४॥ हस्तच्छेदे च सस्यानां छत्रभङ्गो नृपक्षये । स्वातन्त्र्ये विधवत्वे च दीर्घाध्वगः क्रमेलके ॥४९॥ लेखहारे मल्लनागो वात्स्यायनसुरेभयोः । समायोगस्तु संयोगे समवाये प्रयोजने ॥५०॥ सम्प्रयोगो निधुवने सम्बन्धे कार्मणेऽपि च ।
जलसूचिः शिशुमारे त्रोटिमत्स्ये जलौकसि ॥५१॥ उपसर्ग उपद्रवे । प्रादौ रोगे च भेदे च । उपसृज्यते उपसर्गः । उपद्रवे यथारक्षन्तु स्खलितोपसर्गगलिनप्रौढप्रतिज्ञाविधौ । प्रादौ यथा-धातुलीनमुपसर्ग इवार्थम् (:)कटभङ्गो नृपात्यये । हस्तच्छेदे च सस्यानाम् । कटस्य भंग इव प्रजानां दुःसहत्वात् । कटेति शब्देन भजनं वा कटभंगः । नृपात्ययो नृपक्षयः । सस्यानां हस्तच्छेदो मोटनम् । छत्रभङ्गो नृपक्षये । स्वातन्ये विधवत्वे च । छत्रस्य मङ्गोऽत्र छत्रभङ्गः । नृपक्षये यथा-रजन्यामिन्द्रचापेन छत्रभङ्गं विनिर्दिशेत् । दीर्घाध्वगः क्रमेलके । लेखहारे । दीर्घमध्वानं गच्छति दीर्घाध्वगः । नाम्नोगम (५-१-१३१) इति डः ॥४९॥ लेखहारे च वाध्यलिङ्गः । द्वयोर्यथादीर्घाध्वगानां हि किमत्र दूरम् । मल्लनागो वात्स्यायनसुरेभयोः । मल्लश्चासौ नागश्च मल्छनागः । वात्स्यायनश्चाणक्यः । सुरेभ ऐरावणः । समायोगस्तु संयोगे समवाये प्रयोजने । समायोजनं समायुज्यतेऽथवा समायोगः । संयोगो द्रव्ययोरुपश्लेषः । समवायो नैयायिकप्रसिद्धः सम्बन्धविशेषः । त्रिष्वपि यथा-दुर्लभो हि समायोगे समायोगो हितैषिणाम् ॥५०॥ सम्प्रप्रयोगो निधुवने सम्बन्धे कार्मणेऽपि च । सम्प्रयोजनं सम्यक् प्रयोगो वात्र सम्प्रयोगः । निधुवने यथा-सा सम्प्रयोगरभसेन दिनं नतांगी । सम्बन्धे यथासाधुभिः सम्प्रयोगः। अथ चान्तौ । जलसूचिःशिशुमारे त्रोटिमत्स्ये जलौकसि। कङ्कशनाटयोश्चापि । जलस्य सूचिरिव जलं सूचयति वा जलसूचिः । स्वरेभ्य इ:पुंसि।