________________
(३२४) अनेकाथसंग्रहः सटीक :: द्वितीयो विभागः
मृष्टेरुकः स्यान्मिष्टाशे दानशौण्डेऽतिथिद्विषि । रतद्धिकं तु दिवसे सुखस्नानेष्टमङ्गले ॥२८॥ राधरङ्कुस्तु नासीरे शीकरे जलदोपले । लालाटिकः स्यादाश्लेषभेदे कार्याक्षमेऽपि च ॥२९॥ प्रभोर्भालदर्शिनि च लेखीलकस्तु तत्र यः।
स्वहस्तं परहस्तेन लिखितेषु विलेखयेत् ॥३०॥ कुत्सितं मुढं माणवः । माणवः कुःसायामितिसाधुः । स्वार्थे के माणवकः । कुपुंसि बालभिदि यथा-निरर्थकं माणवका गृणन्ति । हारभित्षोडशलतो हारः ॥२७॥ मृष्टेरुकः स्यानिम(म)ष्टाशे दानशौण्डेऽतिथिद्विषि । मृष्टमियर्ति मृष्टेरुकः । कंचुकादित्वात्साधुः । वाच्यलिङ्गः । मृष्टाशो मृष्टभक्षकः । दानशौण्डेऽतिथिद्विषि च यथा- ननाम नामसाम्येन स्वभावसमता मता । दृष्टौ मृष्टेरुकाख्यौ हि दानशौण्डाऽतिथिद्विषो । रतद्धिकं तु दिवसे सुखस्नानेऽष्टमंगले । रतस्य ऋद्धिरत्र रतर्द्धिकम् । त्रिष्वपि यथा-रतद्धि के रतर्द्धिकं कृत्वा न्यसेदतर्टिकम् ॥२८॥ राधरंकुस्तु नासीरे शीकरे जलदोपले । राधसिद्धौ रमते राधरः । कैशोशमीति (उ.७४९) कुः । पुंसि । नासीरमग्रयानम् । लालाटिकः स्यादाश्लेषभेदे कार्याक्षमेऽपि च । प्रभोर्भालदर्शिनि च । ललाटं प्रयोजनमस्य लालाटिकः । प्रयोजनमितीकण् । दूरस्थ एव स्वामिनो ललाटं पश्यति न तु कायें तिष्ठते वा। प्रभोर्ललाटमेव कोपप्रसादाभिलक्षणाय पश्यति वा । शाब्दिकदादरिकेति (६४.४५) साधुः । आश्लेषभेदे पुंसि । शेषयोच्यिलिङ्गः ॥२९॥ प्रभो लदर्शिनि यथा-सौखप्रसुप्तिकविधौ धिषणो नदीष्णः । सौस्नातिकः स किल दैत्यमहत्तरश्च । लालाटिकास्तदपरे प्रहराशितारा यस्याप्रियङ्करमनुष्य किमस्तु मूर्नाम् (मूर्ना)। प्रभो वदर्शिनि चेति पाठः । भावदर्शी अभियायप्रेक्षगतत्परः । लेखोलकस्तु तत्र यः । स्वहस्तं परहस्तेन