________________
(२९२) अनेकार्थसंग्रहः सटीकः :: द्वितीयो वभागः
जीरके कारवेल्ले च सैन्धवः सिन्धुदेशजे । सिन्धुस्थे स्यादथादर्शष्टीकायां प्रतिपुस्तके ॥७०९॥ दर्पणे चाप्यथोड्डीशश्चण्डीशे शास्त्रभिद्यपि । उपांशुर्जापभेदे स्यादुपांशु विजनेऽव्ययम् ॥७१०॥ कर्कशो निर्दये क्रूरे कम्पिल्यककृपाणयोः।
इक्षौ साहसिके कासमर्दके पुरुष दृढे ॥७११॥ गुर्वी सचिवेषु निचिक्षिपे । मुषवी कृष्णजीरके । जीरके कारवेल्ले च । सुष्टु सुनोति अचि गौरादित्वात् ड्यां सुषवी त्रोण्यप्योषधानि ॥७०८॥ सैन्धवः सिन्धुदेशजे। सिंधुस्थे स्यात् । सिंधुषु भवः सैन्धवः । सिन्धुदेशजे वाच्यलिङ्गः । सिन्धुस्थं लवणभेदः । तत्र पुंश्लोबः । सिन्धुदेशजे यथा-तं सैन्धवं क्षितधवः सहसाधिरूढ़ः । सिन्धूस्थे यथा- विडसौवर्चसैन्धवहिंग्वजमोदायवक्षारम् । अथादर्शष्टीकायां प्रतिपुस्तके। दर्पणेचापि । आसमन्ताद् दृश्यतेऽस्मिन् आदर्शः टोका निरन्तरव्याख्या । तत्र प्रतिपुस्तके यथा-आदर्शदर्शितदिशा न शठा लिखन्ति ॥७०९॥ दर्पणे यथा-निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते । अथोड्डीशश्चण्डीशे शास्त्रभिद्यपि । उद्दिश्यते उड्डोशः । पृषोदरादित्वात् । चण्डीशे यथा-उड्डोशः पातु वरचण्डो सनाथैः प्रमथैर्वृतः । (उड्डोशः पातु वश्चण्डी समाधैः प्रथमैर्वृतः । ) शास्त्रभेदे यथा-उड्डीशं यो न जानाति स रुष्टः किं करिष्यति । उपांशु पभेदे स्यात् । उपाश्रुते उपांशुः । अशेरानोन्तश्चेत्युः पुंसि । जापभेदः किंचित् स्फुरदोष्टो जापः । यथा-जाप्यन्तु त्रिविधं प्रोक्तं वाचिकोपांशुमानसम् । उपांशु विजनेऽव्ययम् (ये)। विजने एकान्ते । वर्तमानउपांशुशब्दोऽव्ययम् तत्र यथा-परिचेतुमुपांशुधारणम् कुशपूतं प्रवयास्तु विष्टरम् । पूर्वाचार्यानुरोधेन उपांशुशब्दस्यानेकार्थत्वं दर्शिनम् ॥७१०॥ कर्कशो निर्दये क्रूरे कम्पिल्यककृपाणयोः । इक्षौ साहसिके कासमर्दके परुषे दृढे । कर्कोऽस्त्यस्य कर्कशः । लोमादित्वात् शः कर्क श्यति वा । नवस्वर्थेषु । कम्पिल्यके कृपाणे इक्षौ कासमर्दके च पुंसि । परुषे गुणे पुंक्लीवः । तद्वति शेषेषु १. सुग्रीवो वानराधिपे चारुग्रीवे सैन्धवः ।