________________
(२३२)
अनेकार्यसंग्रहः सटीकः :: द्वितीयो विभागः
चत्वरं स्यात्पथां श्लषे स्थंडिलांगणयोरपि । चंकुरः स्यंदने वृक्षे चकुरो नेत्रगोचरे ॥५४६॥ चाटुकारे चक्रगंडावपि चातुरके यथा । चमरचामरे दैत्ये चमरी तु मृगान्तरे ॥५४७॥ चिकुरोऽहौ गृहबभौ केशे चंचलशैलयोः।
पक्षिवृक्षभिदोश्चापि छिदिरोऽग्नौ परश्वधे ॥५४८॥ ऋग्वीर्दधानै रवतत्यकंधराश्चलावचूला कुलघर्घरा रवैः ।। चंदिरश्चंद्रहस्तिनोः ।। चंदति चंदिरः । मदिभंदिचंदोति इरः ।।५४५।। चत्वरं स्यात्पथां श्लेषे स्थंडिलांगणयोरपि ॥ चत्यते चत्वरम् । क ग श्र इति चरह । पथांश्लेषे यथा- गेहे गहे विपणिषु तथा चत्वरे पानगोष्ठ्याम् । स्थंडिलं संस्कृता भूमिः । अंगणमजिरं यथा-वस्तैणनेत्रा नवकुंकुमेन सेकं प्रचक्रुगृहचत्वरेषु ॥ चंकुरः स्यंदने वृक्षे ॥ चकिः सौत्रः । चंकति चेष्टते चंकुरः । वास्यसि वासीत्युरः । चतुरो नेत्रगोचरे ॥ चाटुकारे चक्रगंडावपि चातुरके यथा ॥ चतति चत्यते वा चतुरः । वास्यसीत्युरः । प्रज्ञादित्वात् स्वार्थेऽणि चतुरः । ततः स्वार्थे के शत्रुरकः । नेत्रगोचरो घटादिविषयः । तत्र चाटुकारे च वाच्यलिंगः । ५४६॥ चाटुकारे यथा-हरंति चतुराश्चित्तं कामिनां स्वामिनां तथा । चक्रगंडवश्चक्रखंण्डानि । एवं चातुरकशब्दोऽपि । वेगिदक्षयोरपि मंखः । वेगिनि यथा-चतुरं चतुरंगमं ततः स्वयमारुह्य ययौ दिदृक्षया । दक्षे यथा-परोपकारचातुर्यमार्याणामेव विद्यते । चमरश्चामरे दैत्ये ॥ चमति चमरः । अटि चटीत्यरः । चामरे यथा-तवेंदुधामधवला चकास्ति चमरावली । दैत्ये यथा-यो रक्षच्चमरं महेन्द्रभीते ॥ चमरी तु मृगान्तरे ॥ मृगान्तरं आरण्यः पशुविशेषः । तत्र यथा-बालप्रियत्वं शिथिलं चमर्यः ॥५४७॥ चिकुरोऽहौ गृहबश्री केशे चंचलशैलयोः। पक्षिवृक्षभिदोश्चापि ॥ चकते चिकुरः । श्वशुरकुकुंदरेति साधुः । सप्तस्वर्थेषु । चंचले वाच्यलिंगः। शेषेषु पुसि । गृहबभ्रुहनकुलः । केशे यथा-लंपाकीनां किरतश्चिकुरविरचनां