________________
(२१२) अनेकार्थसंग्रहः सटीक :: द्वितीयो विभागः
भुजिष्यः स्यादनाधीने किंकरे हस्तसूके ।
भुजिष्या गणिकादास्योः मलयः पर्वतान्तरे ॥ ४९० ॥ .. शैलांशे देश आरामे मलया त्रिवृतौषधी ।
मंगल्यो रुचिरेऽश्वत्थे त्रायमाणे मसूरके ॥ ४९१॥ बिल्वे मंगल्यं तु दन्नि मंगल्या रोचना शमी । शतपुष्पा शुक्लवचा प्रियंगुः शंखपुष्प्यपि ॥ ४९२॥ अधः पुष्पी मृगयस्तु फेरौ ब्रह्मणि लुब्धके ।
रहस्यं गोपनीये स्याद्रहस्या सरिदंतरे ॥४९३ ।। नैव विश्वासः ॥ ४८९ ॥ भुजिष्यः स्यादनधीने किंकरे हस्तसूत्रके ।। भुङ्क्ते भुज्यते वा भुजिष्यः । रुचिभुजिभ्यां किष्यः । अनधोनकिकरयोर्वाच्यलिंगः । अनधीने यथा-भुजिष्या भूभुनः सर्वे । किं करे यथा-हरौ चरति चारकाश्रमतपस्वितां तां शची भुजिष्यदयितेति यः परिरिरंसुमप्यस्तवान् । हस्तसूत्रके यथा-मुजिष्यभूषितभुजः ॥ भुजिष्या गणिकादास्योः । द्वयोर्यथा-कामांधाः कामिनः पश्य भुजेिण्यामपि भुंजते । मलयः पर्वतान्तरे ।। शैलांशे देश आरामे ॥ मलते मलयः क्रुगुवलीत्ययः । मलं याति वा पर्वतांतरे पुंक्लीबः । तत्र यथा-मुर्छयत्येष पथिकान् मधौ मलयमारुतः ॥ ४९० ॥ शैलस्यांऽशोऽवयवः । देशे यथा--मलयकोसलकेकयशासिनां दुहितरो हितरोपितमार्गणम् । आरामे यथा-एतेऽलयो मलयवंजुलमंजरीषु गुंजंति मंजु घनसौरभलाभमत्ताः ॥ मलया त्रिवृतौषधौ ॥ त्रिवृता विषघ्ना ॥ मंगल्यो रुचिरेऽश्वत्थे त्रायमाणे मसरके ॥ विल्वे ॥ मंगले साधुर्मंगच्यः । रुचिरे मंगलहेतो वाच्यलिंगः । तत्र यथा-अथांगुल्यां हरितालमाई मंगच्यमादाय मनःशिलां च । अश्वत्थबिल्वो वृक्षौ । त्रायमाणमोषधम् । मसुरको धान्यभेदः। ४९१॥ मंगल्यं तु दनि ॥ यथा-मंगल्यतिलकं चर्वरस्य कुठयोषितः ॥ मंगल्या रोचना शमी । शतपुष्पा शुक्लपचा प्रियंगुः शंखपुष्प्यपि ॥ अधःपुष्पी ॥ सप्तापि ओषधिभेदाः ॥ ४९२ ।। मृगयस्तु फेरौ ब्रह्मणि लुब्धके ।। मृगयते मृग्यते वा १ महेन्द्रो मलयः सह्यः शक्तिमानक्षपर्वतः। विन्ध्यश्च पारिजातश्च सप्तैते कुलपर्वताः॥