SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ तृतीयः काण्डः (११३) जंभायां स्फुटिते चापि त्वरितं वेगतद्वतोः । त्रिगर्तो गणिते देशे त्रिगर्ता कामुकस्त्रियाम् ॥२५६॥ घुघुमिथ तृणता तृणत्वे कार्मुकेऽपि च । दंशितो मिते दष्टे स्रवन्ती च द्रवन्त्यपि ॥२५७।। नद्यामोषधिभेदे च द्विजातिर्बाह्मणेऽडजे । दुर्जातं व्यसनासम्यक्जातयोरथ दुर्गतिः ॥२५८॥ त्वरितं वेगतद्वतोः। त्वरणं त्वरितं। त्वरते स्म वा। तद्वति वायलिंगः। वेगे यथा-शस्त्रं शस्त्रं न शस्त्री त्वरितमहह हा कर्कशत्वं नखानाम् । तद्वति यथा-त्वरितस्तुरगैर्ययुः। त्रिगतॊ गणिते देशे । त्रयो गर्तोऽस्य त्रिगर्तः । गणितं गणितभेदः । देशे प्रायेण 'भूम्नि । तत्र यथा-परित्रिगर्तं प्रववर्ष मेघः। त्रिगर्ता कामुकस्त्रियां घुघु-। कामुकी चासौ स्वी च कामुकत्री ॥२५६॥ घुघुरी किंकणी। अथ तृणता तृणत्वे कार्मुकेऽपि च । तृणस्य भावः तृणता। तृणवत्ताडयति वा। क्वचिदिति डे पृषोदरादित्वात् । तृणत्वे यथा-तां रत्नतां च तृणतां च निसर्गसिद्धां तेषां पुनर्घटयितु नियतं वराकः। कार्मुके यथा-कामुकानि वनालिकान् तृणताः सहसामुचन् । वल्लभस्तु धनुषि त्रिषु नता तृणता इत्याह । तत्र तु गणिकापक्षे णत्वं चिन्त्यम् । दंशितो वमिते दष्टे । दंशेयंतात् क्ते दंशितः। दंशः संजातोऽस्य वा वाच्यलिंगः। वमिते यथा-दंशितै शितं बलं। दष्टे यथा-दंदशूकैश्च दंशिता। स्रवन्तीव द्रवंत्यपि नद्यामोषधिभेदे च। स्रवति द्रवति च स्रवन्ती द्रवंती च ॥२५७।। नद्यां यथा-परकोर्तिस्रवतीनां न प्रवेशमदत्त यः । ओषधिभेद: आखुपर्णी । द्विजातिाह्मणंऽडजे । *मु० मू० तालितं स्तनिते वस्त्रे वाद्यभाण्डे गुणे स्तुतौ। त्रिगर्तो।
SR No.002280
Book TitleAnekarth Sangraha Satik Part 02
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages542
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy