SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ द्वितीयः काण्ड: (२७७) पिलुः पुष्पे द्रुमे काण्डे परमाणौ मतङ्गजे ॥ तालास्थिखण्डेऽथ पुलः पुलके विपुलेऽपि च ।।४८६।। फलं हेतुकृते जातीफले फलकसस्ययोः ।। त्रिफलायां च कक्कोले शस्त्राने व्युष्टिलाभयोः ॥४८७॥ प्रशंसायां यथा - समुल्लसदृष्टि सुधातरङ्गिणी प्रभाप्रवाहस्य बहिः प्रसर्पतः। वद्धेव रोद्ध किल पुष्पधन्वना कपोलपाली रुरुचे मृगीदृशः। कल्पितभोजने यथा- पालीं प्राप्य कृतार्थतां वहसि चेदाबून किं दूयसे । कर्णतालायां यथा-नेत्राणि चुम्बत विहस्य च कर्णपालीम् । उत्सङ्गे यथा-अविरलविगलन्मदजलकपोलपालीनिलीनमधुपकुलः । प्रस्थे पर्वतैकदेशे यथा-प्रालेयपालीषु हिमाचलस्य । चिन्हे यथा-कपोतपालीषु निकेतनानाम् । अत्र हि कपोता: पालिश्चिन्हं यासां ताः कपोतपाल्यः ।।४८५।। पीलुः पुष्पे द्रुमे काण्डे परमाणौ मतङ्गजे। तालास्थिखण्डे । पोयते पीलुः। पीङ: कित् (उ० ८२१) इति लुः। षट्स्वर्थेषु पुंसि । पुष्पे द्रुमे च यथा-दत्वा पीलुशमीकरीरकवलान् । काण्डं शरः। परमाणुः पुद्गलः। ‘मतङ्गजे यथा-कुञ्जान्तः पतयालुपोलुकलभैराभाति विन्ध्यस्थली । तालस्य तालफलस्य अस्थिमध्यभूतं बीजं तस्य खण्डं तालास्थिखण्डम् । अथ पुलः पुलके विपुलेऽपि च। पुलमहत्वे । पोलति पुलः। पुलके रोमाञ्चे यथा-विपुलपुलकरालं कायमालोक्य वाला। विपुले विस्तीणे बाच्यलिङ्गः। तत्र यथा-पुलपुलिननिलीनं क्रीडति कोडयूथम् । फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च ककोले शस्त्राग्रे व्युष्टिलाभयोः। फलति फलम् । हेतुकृते पुंक्लीबः । शेषेषु क्लीबे। हेतुना कारणेन कृते जनिते यथा-क्लेशः फलेन
SR No.002279
Book TitleAnekarth Sangraha Satik Part 01
Original Sutra AuthorHemchandracharya
AuthorMahendrasuri, Jinendravijay
PublisherHarshpushpamrut Jain Granthmala
Publication Year1972
Total Pages392
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy