SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अध्यात्मोपनिषत्प्रकरणम् ___ ज्ञानपूर्णोऽपि काले स्वानुकूलां क्रियामपेक्षते । यथा स्वप्रकाशोऽपि प्रदीप: स्वानुकूलतया तैलपूर्त्यादिकमपेक्षते इत्यन्वयः । अर्थस्तु व्यक्त एव ॥३.१४॥ क्रियाया बाह्यत्वेन बहिरङ्गतया न मुक्त्यर्थिनामुपादेयत्वं, किन्तु ज्ञानस्यैवाऽऽन्तरत्वेनाऽन्तरङ्गतया मुक्तिसाधनत्वेनोपादेयत्वमित्येवं मतिमास्थाय ये क्रियां प्रतिक्षिपन्ति तानुपहसति - बाह्यभावं पुरस्कृत्य, येऽक्रिया व्यवहारतः । वदने कवलक्षेपं, विना ते तृप्तिकाङ्क्षिणः ॥३.१५॥ क्रियाया बाह्यत्वं पुरस्कृत्य- स्वीकृत्य ये वादिनो व्यवहारतो- व्यवहारदृष्टितोऽक्रिया:- क्रियाविकला, निश्चयनयतस्तु आन्तरप्रयत्नविशेषलक्षणक्रियासद्भावात् सक्रिया एव तेऽपि । तेऽक्रियावादिनो वदनेमुखे कवलक्षेपं- हस्तोपगृहीतबदरामलकादिसदृश-पिण्डितभक्तादेः क्षेपं- प्रवेशनं विना तृप्तिकाङ्क्षिण:तृप्त्यभिलाषिणः । यथा कवलक्षेपं विना तृप्त्यभिलाषिणो लोकस्योपहसनीयतामास्कन्दन्ति तथाऽक्रियावादिनोऽपि क्रियामन्तरेण मुक्त्यभिलाषिणः परीक्षकस्योपहसनीया भवन्तीति ॥३.१५॥ उत्पन्नस्य भावस्याऽपतनलक्षणरक्षणप्रवणत्वेनाऽनुत्पन्नस्य च ,भावस्योत्पादकत्वेन क्रियाविशेषोऽपि युज्यते इति पुनढयति - गुणवबहुमानादे-नित्यस्मृत्या च सत्क्रिया । जातं न पातयेद् भाव-मजातं जनयेदपि ॥३.१६॥ : गुणवतां- जिनेश्वरादीनां बहुमानादितो, नित्यस्मृत्या- सततं तदनुस्मरणेन च, सत्क्रिया- जिनगणधराद्युक्तागमार्थाचरणाभ्यसनादिलक्षणा क्रिया, जातम्- उत्पन्नं भावं सम्यक्त्वादिलक्षणं न पातयेद्- न विनाशयेद्, तदाचरणतस्तस्य दृढीभवनात् । अजातम्- अनुत्पन्नमभिनवं भावं जनयेदपि- अलब्धसत्त्वस्य सत्त्वं सम्पादयेदपि । अत उभयथाऽप्यस्या उपयोग इत्यर्थः ॥३.१६।। ___ननु 'जातो भावो न नश्येते'ति नियमेनाऽपार्थकं तद्रक्षणार्थं सत्क्रियानुष्ठानमिति मतिः कस्यचित् स्यात्, तदपोहाय क्षायिकभावस्य पतनासम्भवेऽपि, क्षायोपशमिकस्य पतनसम्भवेन नोक्तनियम इति पतितभावस्य पुनर्विवृद्ध्यर्थमस्खलनार्थं च सत्क्रियानुष्ठानमावश्यकमित्यावेदयति – क्षायोपशमिके भावे, या क्रिया क्रियते तया ।। पतितस्याऽपि तद्भाव-प्रवृद्धिर्जायते पुनः ॥३.१७॥ छद्मस्थानां क्षायोपशमिके भावे सतीत्यर्थः । या क्रिया सम्यगाराधनादिका, क्रियते- आचर्यते । पतितस्याऽपि- प्रच्युतभावस्याऽपि तद्भावप्रवृद्धिः- प्रच्युतभावोपचयस्तया क्रियया पुनर्जायते- भवति ॥३.१७॥ गुणवृद्ध्यै ततः कुर्यात्, क्रियामस्खलनाय वा । एकं तु संयमस्थानं, जिनानामवतिष्ठते ॥३.१८॥ १. सद्धर्माचारशून्याः ।
SR No.002277
Book TitleAdhyatmopnishat Prakaranam Savrutti
Original Sutra AuthorN/A
AuthorSheelchandrasuri, Trailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy