SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ ३५ ज्ञानयोगशुद्धिनामाऽधिकारः ___ ज्ञानेनाऽन्तर्मुखभवने सति स्वात्मानं ज्ञानस्वरूपतया सततं भावयतो ज्ञानतादात्म्यापन्न एवाऽऽत्माऽविर्भूतो भवतीति ज्ञानस्वरूपतालक्षणमुक्तिः परमपुरुषार्थोऽयत्नोपनत एव भवतीत्याशयेनाऽऽह - द्रष्टुरिति । द्रष्टःआत्मनो दृगात्मता- आविर्भूतज्ञानस्वरूपता । तेनोपयोगलक्षणस्य जीवस्य ज्ञानस्वरूपतायाः सर्वदा भावेऽपि न सर्वदा मोक्षप्रसङ्गः । दृश्यैकात्म्यं- दृगभिन्नग्राह्यस्वरूपशरीराद्यभिन्नत्वमात्मनः, भवभ्रमःसंसारविलासः, बन्ध इति यावत् । ____ अथवा "ज्ञानेनाऽन्तर्मुखो भवे"दिति यदुक्तं, तत्र 'ज्ञानेनाऽन्तर्मुखत्वं कि'मित्याकाङ्क्षायां तत्स्वरूपमेवोपदर्शितं द्रष्टुरित्यादिना । एवं परिभावनमेव ज्ञानेनाऽन्तर्मुखत्वमिति ॥२.५॥ तस्याऽतिशयं प्रकटयति - आत्मज्ञाने मुनिर्मग्नः, सर्वं पुद्गलविभ्रमम् । महेन्द्रजालवद् वेत्ति, नैव तत्राऽनुरज्यते ॥२.६॥ __ मग्न:- तत्स्वरूपपरिभावनलीनचित्तः, सर्व- पुत्रदारधनशरीराद्यखिलं बाह्यं, पुद्गलविभ्रमं- पुद्गलविवर्तमानं पूरणगलनस्वभावत्वात् । — ज्ञानमग्नस्याऽपि मुनेः शरीरादिपुद्गलविलासा: सन्त्येव, न तु तज्जनितचित्तविकारास्तत्र प्रादुर्भवन्ति, तेषामसत्यत्वेनाऽवधारणादित्यावेदनायाऽनुगुणं दृष्टान्तमाह - महेन्द्रजालवदिति । महेन्द्रजालदर्शितार्थस्य द्रष्टुः कल्पितत्वज्ञाने जाग्रति सति तस्योपचयापचयतो न रागद्वेषौ, किन्तु माध्यस्थ्यमेव; तथाऽऽत्मज्ञानमग्नस्य मुनेः शरीरादेः पुद्गलविभ्रमत्वदृष्ट्या पश्यतस्तद्वृद्धिक्षयाभ्यां न रागद्वेषौ, किन्त्वौदासीन्यमेवेत्याह - नैवेति । तत्र- पुद्गलविभ्रमे ॥२.६॥ . नन्वात्मज्ञाने किमपि सुखं नाऽस्ति, बिषये तु कामिन्यादौ सम्भोगादिजनितं सातिशयितं बहुविधं सुखं प्रत्यक्षत एवोपलभ्यते, आत्मज्ञानवत उत्तरकाले मुक्तिसुखसम्भवेऽपि नेदानीं तत् प्रत्यक्षत उपलभ्यते इति स्वयंप्राप्तविषयसुखपरित्यागे स्वार्थभ्रंश एव स्यादतस्तदर्थं तत्राऽनुरागो विधेय एव ज्ञानिनेत्यतो, ज्ञानसुखं तात्कालिकमेव स्वानुभवसंवेद्यं काल्पनिकवैषयिकसुखादपरिमेयगुणं समस्ति, ज्ञानयोगिनस्तत्र मग्नस्य विषयोपभोगजनितं सुखं विषमिवाऽवभासते इति न तत्राऽनुराग इत्याह - आस्वादिता सुमधुरा, येन ज्ञानरतिः सुधा । न लगत्येव तच्चेतो, विषयेषु विषेष्विव ॥२.७॥ येन- आत्मज्ञानवता । तच्चेतः- आत्मज्ञानिचित्तम् ॥२.७।। ननु स्वात्मनि तत्तद्विषयोपार्जनादिकमन्तरेण तत्तद्विषयोपभोगादिजनितसुखसंवेदनमेव न भवति । तत्परिज्ञानाभावे च तत उत्कर्षज्ञानाभावाद् 'ज्ञानरतिः सुमधुरा, न तु विषयरतिस्तथे'त्याकलनमपि कथम् ? तदभावे विषयसुखं परित्यज्य ज्ञानसुखानुरागो माध्यस्थ्यविघातक एव गुणदोषपरीक्षाविमुखस्य सम्पद्यते । ततो विषयसुखानुभव: पूर्वमवश्यमेव विधेयो ज्ञानसुखं प्रकृष्टतयाऽभिकाश्ता । विषयाणां बहुविधत्वाद् विचित्रस्वभावत्वेन +कविषयजनितसुखापकृष्टत्वधिया प्रत्येकं सर्वविषयजसुखापकृष्टत्व
SR No.002277
Book TitleAdhyatmopnishat Prakaranam Savrutti
Original Sutra AuthorN/A
AuthorSheelchandrasuri, Trailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2015
Total Pages118
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy