SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ 663 ' द्वादशमाह्निकम् कत्वात् अनित्यः शब्दः, अर्थादापद्यते आकाशसाधान्नित्य इति । अस्ति चास्य नित्येन साधर्म्यमाकाशादिना द्रव्येण निरवयवत्वमिति । उद्भावन प्रकारभेदाच्च जातिभेद इत्युक्तम् ॥ अस्योत्तरम्अनुक्तस्यार्थादापत्तेः पक्षहानेरुपपत्तिः ॥ ५.१.२२ ॥ अनुपपादितसाधनमनुक्त'मप्यादापद्यत इति वदतः पक्षहानिरप्युपपद्यते। मामकानित्यपक्षसिद्धौ हि सत्याम् , अर्थादापद्यते तावकस्य नित्यपक्षस्य हानि रिति ॥ दोषान्तरमाह- . अनैकान्तिकत्वाच्चार्थापत्तेः ॥५-१-२३ ॥ उभयपक्षस माने यमर्थापत्तिः, विपर्ययेणापि प्रयोक्तुं शक्यत्वात् । 'नित्यः शब्दः, निरवयवत्वात्' इत्येवमप्युक्ते शक्यं वक्तुम् , यदि नित्याकाशसाधात निरवयवत्वात् नित्यः शब्दः अर्थादापद्यते, अनित्यघटादिसाधात् प्रयत्नानन्तरीयकत्वादनित्य इति । न चैवमपि काचिदर्थसिद्धिः। न खलु व घनस्य प्रावणः पतनमित्युक्ते अर्थादापद्यते द्रवस्य वारिणः पतनाभाव इति ॥ [भविशेषसमः] एकधर्मोपपत्तेः क्वचिदनुपपत्ते: प्रतिषेधाभावः ॥५-१-२५॥ * नित्यपक्षस्य हानिः अर्थांदापद्यत इत्यन्वयः॥ घनस्य ग्रावा-करका ॥ 1 म-ख, मर्थे-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy