SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ 623 एकादशमाह्निकम् एतच्चान्यतरासिद्धस्यैव लक्षणम् । यथा मीमांसकं प्रति 'अनित्यः शब्दः कृतकत्वात्, घटवत्' इति । *न चाक्षुषत्वादेरुभयासिद्धस्य साध्यत्वं संभव. तोत्य'त': सकलासिद्धभदसङग्रहाय 'साध्यत्वात्' इत्येतत्पदरहितं 'साध्याविशिष्टः' इत्येवासिद्धलक्षणमुपवर्णनीयम् ॥ . साध्यस्य रूपद्वयम् ] साध्यस्य च रूपद्वयमस्ति, असिद्धत्वं साध्यत्वं च। तत्रासिद्धत्व. में व भवति तदादिशिष्टत्वकारणं इहाश्री यते सर्वासिद्धभेदसाधारणम् न तु साध्यत्वमायतरासिद्धयेकलग्नमिति। एवंचासिद्ध त्वमेवा सिद्धस्य लक्षणमुक्तं भवति। पक्षधर्मत्वं यस्य नास्ति, साध्ये मिणि यो न वर्तते-हेतुः सोऽसिद्ध इति ॥ [असिद्धा अनेकविधाः ] तस्य तु भूयांसो भेदा भवन्ति - हेतुस्वरूपे तावत् अन्यतरस्य वादिनोः, द्वयोर्वा अज्ञानम् संदेहः, विपर्यय इति। तथा तदाश्रयेऽपि धमिणि एकस्य वा, द्वयों तथैवाज्ञानसन्देहविपर्यया इति। भूयसि च पक्षीकृतेऽर्थे तदेकदेशे क्वचिद्वत्तिः, तदितरत्रावृत्तिरिति। एकदेशवृत्तावपि द्वयोरेकस्य वा तथैवाज्ञानसंशयविपर्यया इत्येवं प्रकारभेदोदाहरणवर्णनमल्पप्रयोजनमिति न प्रस्तूयते ॥ . .. [अन्यतरासिद्धेः सर्वसंप्रतिपन्नत्वम् ] - अन्यतरासिद्धे तु न विवदन्ते, प्रमाणस्यापक्षपातित्वात् । यदि तावत् कृतकत्वं शब्दे प्रमाणतो निश्चितं, तहि मीमांसकस्यापि ताकिकस्येव * न संभवति–इत्यन्वयः॥ 1 र्थः-ख, वं-ख, त्वं तेन चा-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy