SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ 610 न्यायमरी ऽयम् । अतः असाधारण विरुद्धाव्यभिचारिणोः कथंचित्संशयहेतुत्वेऽपि पक्षद्वयवृत्त्यभावत् नानैकान्तिकवर्गेऽन्तर्भावः । क्व तर्हि तावन्तर्भविष्यतः ? जात्युत्तराणामानन्त्यात् तेष्विति वक्ष्यामः ॥ तस्मादसाधारणसंज्ञकस्य तोविरुद्धाव्यभिचारिणो वा । विपक्षवृत्तित्वमतर्कयन्तः वदन्त्यनैकान्तिकतां न तद्ज्ञाः ॥ [ विरुद्ध लक्षणम् ] सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥ १-२-६ ।। सपक्ष विपक्षयोः वृत्त्यवृत्ती हेतोर्लक्षणम् । ते यस्य विपर्यस्ते दृश्येर्ते, यः सपक्षे न वर्तते, विपक्षे च वर्तते, सः साध्यविपर्ययसाधनात् विरुद्धों भवति ; सोऽयमुच्यते - सिद्धान्तमभ्युपेत्येति । * सिद्धान्तशब्दः यद्यपि धर्मविशिष्टे धर्मिणि व्याख्यातः, अयमित्थ मित्यभ्युपगमविषयीकृतोऽर्थः सिद्धान्त इति - तथापीह तदेकदेशसाध्यधर्मविषयो लक्ष्यते * । तं सिद्धान्तं साध्यधर्ममभ्युपगम्य यो विरुणद्धि - व्याहन्ति' - तद्विपर्ययं साधयति स विरुद्ध इत्यर्थः ॥ [ सूत्रार्थवर्णनम् ] ननु समानकर्तृकयोः क्त्वाप्रत्ययः स्मर्यते । इह च हेतोर * चेतनस्याभ्यु पगमेन कर्तृत्वासंभवात् पुरुषस्तत्कर्ता भवेत् । 'सिद्धान्तं च विरुणद्धि वस्तुस्वरूप दृष्ट्या अन्तत्वं सिद्धं विवाक्षितमिति भाव: ॥ 1 ब्दोऽपि यदि-ख, रति - च 2
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy