SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ . एकादशमाह्निकम् [ प्रतिपेधार्थकत्वेऽपि न दोषः ] प्रसज्यप्रतिषेधेऽपि - ऐकान्तिको न भवति यः स एवाहेतुरिति न निवृत्तिमात्रपरत्वम् । अश्राद्धभोजीति * कृता पुरुष उच्यते, न श्राद्धभोजनाभावमात्रम् । एवमिहापि तद्धितेनैकान्तनियतताप्रतिषेधविशिष्टः हेतुरेवोच्यते, नाभावमात्रम् - इत्येवमुभयथाऽपि न दोषः ॥ तस्योदाहरणं - नित्यः शब्दः प्रमेयत्वात् - इति । एष हि नित्यानित्यपक्षयोरन्यतरस्मिन्नपि न नियत इति विपक्षवृत्तित्वादनैकान्तिक उक्तो भवति ॥ 607 [ परोक्तानैकान्तिकविभागविमर्श: ] ननु ! षट्प्रकारः परैरनैकान्तिक इष्यते । सपक्षैकदेशवृत्तिः विपक्ष व्यापी, विपक्षैकदेशवृत्तिः सपक्षव्यापी, 'उभय पक्षैकदेशवृत्तिः, उभयपक्षव्यापीति साधारणः चतुष्प्रकारः । असाधारणः विरुद्धाव्यभिचारी चेति । स कथमिह न निर्दिश्यते - उच्यते - सपक्षव्याप्त्यादिभेददर्शनं तावत् अप्रयोजनकम्, अशक्यं च हेत्वाभासानामवान्तरभेदानन्त्यात् 1 विपक्षाद्व्यावृत्तिर्यस्य नास्ति, स सव्यभिचारः - इत्यन्यतम हेतु रूपरहितत्वमनैकान्तिकलक्षणमिह विवक्षितम् । तच्चोक्तमेव । किमवान्तरभेदपरि. गणनेन || असाधारणविरुद्धान्यभिचारिणौ तु न संस्त एव हेत्वाभासाविति न व्याख्यायते || * कृता - कृत्प्रत्ययेन ॥ + व्यतिरेकः - विपक्षावृत्तित्वम् ॥ 1 वि-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy