SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ दशममाहिक तस्मात् हेतुधर्मप्रयुक्तः साध्यधर्म: 'यत्र ख्या प्यते, से साधर्म्यदृष्टान्तः। तद्वचनमुदाहरणमिति सिद्धम् ॥ [वैधोदाहरणम् ] . - तद्विपर्ययाहा विपरीतम् ॥ ३-२-३७॥ 'दृष्टान्त उदाहरणं' इति वर्तते । तदिति साध्यसाधर्म्य परामर्शः। तच्च यद्यपि पूर्वसूत्रे लिङगसामान्यं व्याख्यातम्-तथाप्युभयस्य संभवा' दिहानुमेयसामान्यं साध्यसाधम्यं द्रष्टव्यम् । तद्विपर्ययात-साध्याभावात् , तद्विपरीतः-अतद्धर्मभावी-साधनरहितः यो दृष्टान्तः, स वैधHदृष्टान्तः पूर्ववत् वचसः कर्मतामापद्यमानः वैधोदाहरणं भवति । 'विपरीतं' इत्युदाहरणापेक्षया नपुंसकलिङगनिर्देशः ॥ . [वैधय॑दृष्टान्ते विशेषः ] किमर्थं पुनः साध्याभावात् साधनाभावो वैधHदृष्टान्तो वयंते, ने पुनः साधर्म्यदृष्टान्तस्थित्या साधनाभावादेव साध्याभाव इति-उक्तमत्र व्याप्यव्यापकभावो यः साध्यसाधनधर्मयोः। स एव वैपरीत्येन मन्तव्यस्तदंभावयोः' इति । - कि कारणम् ? साधनधर्मे हि धूमे साध्यधर्मेणाग्निना व्याप्तेऽन'ग्निः तत्र निवेशमलभमानोऽन्यत्रानवकाशाद धूम एवं निविशते। एवं साध्य. धर्माभावेऽनग्नौ साधनधर्माभावेनाधूमेन व्याप्ते सति धूमस्त त्रालब्धाव. काशः अनन्यगतित्वादग्नावेव निविशत इति ॥ ध्यधर्म-ख, तथाप्यत्र-ख, ना-खं 1 य उत्था-ख, तू-ख, 'त्र-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy