SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ दर्शमयहिकम् 535 [अवयवावयविविभागयोरैक्यम् ] यदि वा मान्यो वंशदलविभागः, 'नान्यश्च तत्कार्यों इलाकाश. विभागः। किन्तु एक एव विभागोऽयं भेदोऽस्याश्रयभेदतः। एकत्र *देशेऽवस्थानात व्योम्नो वंशदलस्य च ॥ समानदेशे वृत्तित्वं मूर्तानां हि विरुद्धचते। व्योम्नस्सर्वगतत्वात्तु विद्यते तत्र सन्निधिः ॥ एकदेशाश्रयत्वे तु यदेकस्माद्विभागकृत् । तदेवान्यत इत्यस्ति न विभागो विभागजः ॥ . [अतिरिक्तविभागनिराकरणम् ] अपरे पुनः विभागजविभागपराकरणोपारूढरभसाः संगिरन्तेतिष्ठतु तावत् दूरत एव विभागजो विभागः । कर्मजोऽपि न विभागो नाम कश्चिदस्ति । संयोगविरोधिनि तस्मिन्नभ्युपगम्यमाने मुदगरादिवत् पूर्व सिद्धताऽवश्यंभाविनी। ततश्च पूर्वसिद्धो विभागः संयोगमुन्मूलयतीति घटमुद्गरयोरिव संयोगविभागयोरेकत्र युगपदुपलब्धिर्भवेत । न चैवमस्ति । तस्मात् संयोगाभावविषय एव विभक्तप्रत्यय इति न विभागालम्बनतां प्रतिपद्यते ॥ - सत्य पि विभागे तस्मिन् क्षणे संयोगस्याविनाशात् न भवति विभक्तप्रतिभासः । क्षणान्तरे च संयोगविनाशे सति भवतीत्यन्वयव्यतिरेकाभ्यां संयोगाभावविषय एवावसीयते 'इत्यतो न प्रत्यक्षगम्यता निभागस्य । संयोगभङगलिङगेन च तत्परिकल्पनक्रियेव तं हिनस्तीति पुरस्तादुप . पादितम् ॥ * देशः-दिग्देशः। दिगेव हि सर्वत्र मुख्यो देशः॥ - अ-ख उत्पन्ने-च. त्ययः-ज, न-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy