SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ 532 न्यायमञ्जरी [विभागजविभागस्यावश्यकता ] किं कृता पुनरियं* स्थितिरिति चेत-उच्यते-या वयवक्रिया नभोभागविभागकारिणी, नासौ द्रव्यारम्भकसंयोगप्रतिपक्षभूतं विभागमारभमाणा दृश्यते, दिनकरकिरणपरामर्शोपजनितकमलदलविकासकारि. क्रियावत्। तदेव कथमिति चेत्-कमलस्य मुकुलविकासदशयोः प्रत्य. भिज्ञायमानत्वेनाविनाशनिश्चयात्॥ इयं तु पाटयमानबंशदलक्रिया द्रव्यारम्भकसंयोगप्रतिद्वन्द्विभूत विभागारम्भि'का, द्रव्यानारंभक संयोगप्रतिद्वंद्विविभागजनिको पलभ्यते इति नासौं नभसो विभागमारभेतेत्यत एषा स्थितिरस्तीति विभाग़ज. . विभागकल्पना क्रियते ॥ [विभागस्यैव संयोगनाशकत्वम् ] संयोगान्तं कर्मेति तावत स्थितम् । अन्यथा हि तस्य कालान्तर. स्थायित्वं, नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात्। तस्मात् कर्मणोऽचिरजीवित्वात् तद्विनाशकेन संयोगेन भवितव्यम्। उत्तरस्तु संयोगः पूर्वसंयोगोपरमे सति जायते, नान्यथा। न च विभागव्यतिरिक्तः कश्चन संयोगस्य हन्ता समस्ति | कर्म तूत्तरसंयोगजन्मनितिकौशलम् । न हि प्राक्तनसंयोगविनाशाय प्रकल्पते ॥ तस्मात् विभागेनैव संयोग विरोधिना भवितव्यम् ॥ आरंभकसंयोगप्रतिद्वंद्वि. * अनारंभकसंयोगप्रतिद्वंद्विविभागजनिका क्रिया विभागजनिका न भवति इतीयं स्थितिः ॥ + अन्यथा-पूर्वसंयोगाना ॥ 1 को-ख, नाशकारिणा भाव्य-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy