SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ दशममाह्निकम 523 प्रतिपादकम् । समानानेकधर्मोपपत्तः, विप्रतिपत्तः, उपलब्ध्यनुपलब्ध्यव्यवस्था तश्चेति विभागसूत्रम् । पुनश्च समानधर्मोपपत्तः उपलब्ध्यनुप. लब्ध्यव्यवस्थातो' विशेषापेक्षोविमर्शः संशय "इत्येतदेव सूत्रं प्रथमस्य संशयस्य विशेषलक्षणप्रतिपादकमिति ॥ [सूत्रस्य सामान्यविशेषलक्षणपरत्वम् ] · ननु ! एतदेव सूत्रं सामान्यलक्षणार्थम्, इयदेव चेदयमन्यूनानतिरिक्तं विशेषलक्षणार्थमिति कथमेतत्-उच्यते-*विशेषस्मरणकारणभूत साधारणधर्मग्रहणात् , विशेषाग्रहणात् , विशेषास्मृतेश्च संशयो भवतीति प्रत्यात्मवेदनीयं तावदेतत् । सूत्रे विशेषापेक्ष इत्यनेन पदेन विशेषस्मरणमुपदिष्टम्। उपलब्ध्यनुपलब्ध्यव्यवस्थापदेन च विशेषाग्रहणमितीय तावत् द्वयोरणि सामान्यविशेषलक्षणयोः तुल्यम् । समानशब्दस्त्वाक्षिप्तसामान्यवचनः सन् तत्सामान्यलक्षणमाह। अनुगतसामान्य वचनस्तु विशेषलक्षणमिति ॥ . [सामान्यविशेषलक्षणप्रतिपादनप्रकारः] : कथं पुनरयमेवाक्षिप्तसामान्यवचनः, कथंचानुगतसामान्यवचन इति -उच्यते-संशयोत्पत्त्यैव समानधर्यमात्रमाक्षिप्यते, यद्गृह्यमाणं विशेषस्मरणबीजसंस्कारोबोधनिमित्ततां प्रतिपद्यते, तद्व्यतिरेकेण संशयानुत्पादात् ॥ तथा हि--विरुद्ध विशेषावमर्शस्वभाबस्तावत्संशयः। न च विरुद्धविशेषाणां पुरोऽवस्थिते धर्मिणि सन्निहितानाम् अवमर्शनम्, विरुद्ध * विशेषाः-स्थाणुत्वपुरुषत्वादयः॥ 4 तो-ख, २ इयदस्य-ख, तत्र-खं, ता -ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy