SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ 500 भ्यायमञ्जरी अर्थप्रकाशने समयग्रहणमपेक्षते, स्वप्रकाशने तु श्रोत्रम्। दीपोऽपि चक्षुराद्यपेक्ष एव गृह्यते, ग्राहयति चार्थम् ॥ इयांस्तु विशेषः - घटादिग्रहणे आलोकसापेक्षं चक्षुः प्रवर्तते । आलोकग्रहणे तु निरपेक्षमिति। नैतावता दीपस्य स्वप्रकाशता स्यात् । *इत्थं च मार्जारादिनक्तंचरचक्षुरपेक्षया सर्व एव घटादयः स्वप्रकाशाः स्युः ॥ ज्ञानस्य परप्रकाशक त्वमेव दृश्यते, न स्वप्रकाशकत्वम्, अर्थप्रकाशकाले तदप्रकाशस्य दर्शितत्वात् ।। मुधैव नस्मा गणितस्त एते त्रयः प्रकाशाः स्वपरप्रकाशाः । प्रदीपबोधध्वनिनामधेयाः । विभिन्नसामग्रयभिवेद्यवेदकाः ॥ आत्मप्रत्यक्षवादिनां तु अवस्थाभेदेन ग्राह्यग्राहकांशयो/दो विद्यत एवेति सर्वथा न स्वप्रकाशं ज्ञानम् ॥ [अर्थग्रहणवेलायां न ज्ञानग्रहणसंभवः ] . यदप्यभि हितं-उत्पद्यमानमेव ज्ञानं अनपेक्षत्वात', अप्रतिबन्धत्वाच्च तदैव गाते, न वा कदाचिदिति-तदप्यसांप्रतम्-तदानीं तद्ग्रहण. सामग्रयभावात् ॥ * इत्थं च-सामग्रीन्यूनतामात्रेण। मार्जारादीनामालोकापेक्षाया अभावेन, तेषां घटादयोऽपि स्वप्रकाशा भवेयुः॥ + 'पश्यत्यास्मानमारमना' इत्यादौ हि कर्तृत्वकर्मत्वकरणत्वादिकं उपाधिभेदेन स्पष्टम् ॥ 1 त्रादि-ख,च, विज्ञा-ख. श-ख, द्-ख, शाः-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy