SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ 478 न्यायमञ्जरी मर्थमवद्योतयति गौः शुक्लो गच्छतीति, जातिगुणक्रियावच्छिन्नविषयाव भासिनि प्रत्यये शब्दविशिष्ट एवार्थः स्फुरतीति बुध्यस्व ॥ [अर्थानां शब्दात्मकत्वसमर्थनम् ] एवं चेद्बोद्ध मवतीर्णोऽसि शब्दाख्यविशेषणानुरक्तस्य तस्य विशेष्यस्य स्वरूपं पृष्टः शब्देनैव दर्शयसि, शब्दापरित्यागलब्धप्रकाशस्वरूपयैव वाऽनुभूत्याऽनुभवसीति सोऽपि विशेष्यः शब्दरूप एवेति जानीहि । तदेव शब्द एवार्थोपारूढः प्रतिभातीति व्यवतिष्ठते । इत्थमियन्तमध्वानं चेत्प्राप्तोऽपि तदधुना यदुपारूढः शब्दः प्रकाशते, तस्य पृथक् प्रदर्शयितुमनुभवितुं चाशक्यत्वात् शब्द एव 'तथा तथा प्रतिभातीति शब्दविवर्त एवायमर्थः, नान्यः कश्चिदिति प्रतिपत्तुम हसि ॥ यथा चायमिन्द्रियजेषु प्रतिभासेषु प्रक्रमः, तथा शाब्देष्वपि प्रत्ययेषु शब्दविशिष्टो वाऽर्थः प्रविभाति, शब्दो वाऽर्थारूढः, शब्द एवार्थरूपेण विवर्तत इति गृह्यताम् ॥ अतश्च शब्दब्रह्मदमेकम अविद्योपाधिशितविचित्रभेदम, अविद्योपरमे यथावस्थित स्वरूपं प्रकाशत इति युक्तम् ॥ . [शब्दविवर्तवादनिरासः ] अत्राभिधीयते-न खलु* प्रकारत्रयमपीदमुपपद्यते, पदपदार्थसंबन्ध. व्युत्पत्तिविरहिणाम् अनवाप्तशब्दयोजना वैरूप्य स्वरूप मात्रप्रतिष्ठ' * शब्दस्य सूक्ष्मस्वादन्यथासिद्धयसंभवादिति हेतुः॥ 1 त-ख, 'रू-ख, 'ब्दोपजनित-च, सारूप्य-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy