SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 446 न्यायमञ्जरी 'ये चत्वारः पथयो देवयानाः' इत्यादयो हि चतुर्थाश्रमशंसिनः भूयांसः सन्ति मन्त्रार्थवादाः । मन्वादिस्मृतिवचनानि चतुर्थाश्रमोपदेशीनि चतुर्था. श्रमोचितशौचाचारादीतिकर्तव्यता वितानविधानपराणि च प्रबन्धेनैव दृश्यन्ते 'एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः । - वने वसेत्सु नियतः भैक्षभुग्विजितेन्द्रियः ॥' इत्युपक्रम्य चतुर्थाश्रमोचितमोक्षोपायानुष्ठानोपदेशाय षष्ठोऽध्यायः समस्त एव मनुनाऽनुक्रान्तः ॥ [सन्यासाश्रमः स्पष्टश्रुतिसिद्धः ] जाबालश्रुतौ च विधायकेनैव ब्राह्मणवाव्येन *प्रतिपदमाश्रमचतुष्टय मुपदिष्टम् 'ब्रह्मचारी भूत्वा गृही भवेत्, गृही भूत्वा वनी भवेत् , वनी भूत्वा प्रव्रजेत्' इति ॥ अग्निसमारोपणविधानोपदेशश्च प्रत्यक्षश्रुतः कथमपतूयते । 'आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्' इति | अपि च उपनिषदामध्ययनं असति मोक्षोपायप्रयोगसमर्थे चतुर्थाश्रमे निरर्थकमेव प्राप्नोति। क्रियाकाण्डानुष्ठाननिष्ठत्वे हि वेदस्य ज्ञानकाण्डो. पदेशः किंप्रयोजनः स्यात् ॥ [ चतुर्थाश्रमकालः ] त देवं वर्णवत् आश्रमाणामपि चतुर्णा प्रत्यक्षोपदेशसिद्धत्वाच्चतुर्थाश्रमिणां च मोक्षाधिगमोपायतत्त्वज्ञानभावनाभ्यासावसरसंभवात् सोऽयं * प्रतिपदम्-स्वपदेनैवेति यावत् ॥ । वि- च तु -ख प-ख
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy