SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ नवममाह्निकम् – प्रमेयपरीक्षा [अपवर्गपरीक्षा] एवं शरीरादौ दुःखपर्यन्ते हेये प्रमेये निर्णीते, यदर्थ एतदुपदेशः यत्प. रमुपादेयं प्रमेयं, यदर्थः शास्त्रारम्भः तमपवर्ग लक्षयितुमाह तदत्यन्तविमोक्षोऽपवर्गः ॥ १-१-२२॥ - तदिति प्रक्रान्तस्य दुःखस्यावमर्शः । न च मुख्यमेव दुःखं बांधनास्वभावमवमृश्यते, किन्तु तत्साधनं तदनुषक्तं च सर्वमेव। तेन दुःखेन वियोगोऽपवर्गः॥ अस्ति *प्रलयवेलाया मप्या त्मनो दुःखवियोगः । स त्वपवर्गो न भवति, सर्गसमये पुनरक्षीणकर्मा शयानुरूपशरीरादिसंबन्धे सति दुखसंभवात् । अतः तद्व्यावृत्त्यर्थमत्यन्तग्रहणम् ॥ [अशेषविशेषगुणोच्छेद एव मोक्षः]' आत्यन्तिको दुःखनिवृत्तिरपवर्गः, न सावधिका। द्विविधदुःखावमशिना सर्वनाम्ना सर्वेषामात्मगुणानां दुःखवदवमर्शात, अत्यन्तग्रहणेन च सर्वात्मना तद्वियोगाभिधानात् नवानामात्मगुणानां बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां निर्मूलोच्छेदः अपवर्ग इयुक्तं भवति ॥ * प्रलयेति.सुषुप्त्यादीनामुपलक्षकम् ॥ 1 मा-ख, नु-ग,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy