SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ 416 न्यायमञ्जरी .. . [ईर्ष्यादीनां क्लुप्तेष्वेवान्तर्भावः] ननु च! ईर्ष्यासूयालोभमानमदमत्सरादिदोषान्तरसंभवात् कथं त्रय एव दोषाः?-न-ईर्ष्यादीनां यथानिर्दिष्टेष्वेवान्तर्भावात् ॥ . [रागप्रभेदाः] कामः, मत्सरः, स्पृहा, तृष्णा, लोभ इति पंचप्रकारो रामपक्षः । . स्त्रीसंयोगेच्छा कामः । यदन्यस्मै निवेद्यमानमपि वस्तु धनवन्न क्षीयते, तदपरित्यागेच्छा मत्सरः। अनात्मीयवस्त्वादित्सा स्पृहा। पुनर्भवप्रति सन्धानहेतुभूतेच्छा तृष्णा। निषिद्धद्रव्यग्रहणेच्छा लोभ इत्यभिलाषप्रकारभेदात राग पक्ष एवा'यम् ॥ [ दोषप्रभेदाः] ' द्वेषपक्षोऽपि पंचविधः, क्रोधेासूया द्रोहोऽमर्ष इति 1 अक्षिन्नादि विकारहेतुः प्रज्वलनात्मकः क्रोधः। साधारणेऽपि वस्तुनि परस्य दर्शनाद्यसहनं ईर्ष्या । परगुणेष्वक्षमा असूया। परापकारः द्रोहः । अदशितमुखादिविकारः परं प्रति मन्युः अमर्षः इति असहनप्रकारभेदादेष द्वषपक्षः ॥ [ मोहप्रभेदाः] मोहपक्षस्तु चतुर्विधः - मिथ्याज्ञानं, विचिकित्सा, मानः, प्रमाद इति । अस्मिस्तदिति ज्ञानं मिथ्याज्ञानम्। कि स्विदिति विमर्शो * यद्यपि इन्द्रियसुखसामान्यं कामः, तथापि तीव्रत्वादस्य प्रयोगप्राचुर्याच्च एवं व्याख्यानम् ॥ 1 लक्षणो-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy