SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ अष्टममाह्निकम् 365 प्रविष्टभूतान्तरसंबन्धनबन्धन'स्तु तिस्मन् क्लेदोष्मव्य हावकाशसं प्रत्ययः। - तद्यथाऽऽगमपठितेषु वरुणलोकादौ केवलजलादिजन्येषु शरीरेष सहकारित्वानुप्रविष्टपार्थिवावयवोपष्टम्भवशेन स्थैर्या धुपलंभइति । तस्मादस्मदादिशरीरं पार्थिवम् ॥ . [शरीरस्य पार्थिवत्वं वेदसंमतम् ] वेदे च तथैव व्यवहारो दृश्यते । अग्नीषोमीयादिपशोः प्रलयकाले, यजमानस्य वा प्रेतस्य पात्रचयनकर्मणि 'सूर्य चक्षुर्गमयतात्' इत्यु. पक्रम्य, 'पृथिवी ते शरीरम्' इति पठ्यते । तच्च प्रकृतिगामित्व. वचनम्। यद्यतः प्रकृतेरुत्थितं तत्तस्यामेव लीयतामित्यर्थः। तत्र यथा तेजसं चक्षुरिति सूर्याख्य तेजसि तद्गमनमुपदिष्टम्, एवं पृथिव्यां शरीर. स्येति॥ लस्मात्पृथिव्यवयवैरयमस्मदादि देहो निबद्ध इति नात्र सतां विवादः। सोऽयं च दुःखवसतेर्भवमन्दिरस्य । स्तम्भः कठोर इति यत्नत एव हेयः* ॥ [इन्द्रियपरीक्षा] घाणरसनचक्षुस्त्वश्रोत्राणोन्द्रियाणि भूतेभ्यः ॥१-१-१२ ॥ अत्र इन्द्रियाणां विषयोपलब्धिकारणत्वं सामान्यसक्षणं प्रसिद्धमेव । विभागोऽपि पंचबाह्येन्द्रियाणीत्येष सूत्रित एव। स चानन्तरमेव तीर्थान्तरकथितकर्मेन्द्रियानिषेधात् साधयिष्यते ॥ - - * भनेन चैतद्ज्ञानस्य प्रयोजनमुक्तम् ॥ 1 स्ततः सिद्धः-ख, घु-ख, धनु-ख. द:-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy