SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ 356 न्यायमञ्जरी केचित् क्रोधप्रधानाश्च भवन्ति भुजगादयः॥ ज्वल द्विषानलज्वालाजालपल्लविताननाः। जगतो यच्च वैचित्र्यं सुखदुःखादिभेदतः॥ कृषिसेवा*दिसाम्येऽपि विलक्षणफलोदयः। अकस्मान्निधिलाभश्च विद्युत्पातश्च कस्य चित् ।। क्वचित्फलमयत्नेऽपि यत्नेऽप्यफलता क्वचित् । तदेतदुर्घटं दृष्टात्कारणाद्व्यभिचारिणः ॥ तेनादृष्टमुपेतव्यमस्य किंचन कारणम् । [ जगद्वैचित्र्यकारणस्य न भौतिकत्वम् ] अदृश्यो' भूतधर्मस्तु जगद्वैचित्र्यकारणम् ॥ . यदि कश्चिदुपेयेत को दोषः कर्मकल्पने । संज्ञामात्रे विवादश्च तथा सत्यावयोर्भवेत् ॥ भूतवद्भुतधर्मस्य न'चा दृश्यत्वसंभवः।। दृष्टश्च साध्वीसुतयोः, यमयोस्तुल्यजन्मनोः॥ . विशेषो वीर्यविज्ञानसौभाग्यारोग्यसंपदाम् । . स्वाभाविकत्वं कार्याणां अधुनैव निराकृतम् ।। तस्मात् कर्मभ्य एवैष विचित्रजगदुद्भवः ।। * सेवा-गुरुसेवा । गुरुसेवादीनां समानत्वेऽपि शिष्ययोः ज्ञानसंपत्ती दृश्यते तारतम्यम् ॥ + अत्तश्चादृष्टस्य भूतधर्मत्वे तस्य प्रत्यक्षत्वापत्तिः ॥ * 'साध्वी' 'यम पदाग्या कारणान्तरनिराकरणम् ॥ 1 ष्टो- ख च -ख
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy