SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ 345 सप्तममादिकम् [ सन्तानानां सौसादृश्यमपि दुर्वचम् ] न चैष नियमो लोके सदृशात्सदृशोद्भवः। वृश्चिकादेस्समुत्पादः गोमयादपि दृश्यते ॥ शरीरान्तरसंचारचातुर्य च धियां कथम् । ज्वालादिवन्न मूर्तत्वं न च ब्यापकताऽत्मवत् ॥ [जननमरणाद्युपपादनमपि क्षणिकवादे दुर्घटम् ] *आतिवादिकदेहेन नीयन्ते चेद्धवान्तरम्।। नन्वातिवाहिकेऽप्यासां कथं संचारसंभवः ॥ आस्तामेवैष वा जीवेद्देहेऽपि पथि गच्छताम्। प्रदेशान्तरसंचारो 'ज्ञानानां भवतां कथम् ॥ म षां भूतधर्मत्वं न स्वतो गतिशक्तिता। न च जात्यादिवद्वृत्तिः न च व्यापकताऽऽत्मवत्॥ एवं यदैव निष्क्रान्तः विहारकुहराद्भवान् । तदा काष्ठी भवेद्देहः ज्ञानसंक्रान्त्य संभवात् ।। तंदयं संक्षेपार्थः त्यक्तव्यो वा निरस्य कौरुकुचीम् । सुरगुरुवत्परलोकः नित्यो वाऽऽत्माऽभ्युपेतव्यः ।। * आतिवाहिकदेहः-अन्तराभवदेहः ॥ +कौरुकुची-निर्वक्तुमशक्यः उद्वेगविशेषः। शब्दानुकरणमिदम् ।। 1 देशा-ज, कष्टी-ख, 'न्ति-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy