SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 278 न्यायमञ्जरी तस्मात् प्रत्यक्ष एवात्मा वरमभ्युपगम्यताम् । *वृद्धागमानुसारेण संविदालोकनेन च ॥ [आत्मनः अनुमेयत्वपक्षः] अथवाऽभिनिवेशेन किमनेन प्रयोजनम् । अनुमेयत्वमेवास्तु लिङगेनेच्छादिनाऽऽत्मनः ।। तदाह सूत्रकारःइच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ॥ १-१-१० ॥ इच्छा नाम तावदित्थमुपजायते यज्जातीयमर्थ मु' प{जानः पुरुषः पुरा सुखमनुभूतवान् , पुनः कालान्तरे तज्जातीय मर्थमुपलभ्य सुखसाधन तामनुस्मृत्य तदादातुमिच्छति । सेयमनेन क्रमेण समुपजायमानेच्छा पूर्वापरानुसन्धानसमर्थमाश्रयमनुमापयति, कार्यस्य निराधारस्यानुपपत्तेः । आश्रयमात्रप्रतीतौ चायमन्वयव्यतिरेकवानेव हेतुर्भवति । इच्छा धर्मिणी* -आश्रितेति साध्यो धर्मः-कार्यत्वात् , घटादिवत् ; गुणत्वात् , 'रूपा. दिवत् इति वा हेतुर्वक्तव्यः॥ गुणत्वं चेच्छादीनां अचाक्षुषप्रत्यक्षत्वादिना रसादिवद्दर्शितमाचायः॥ [आत्मानुमानप्रकारः] एवमन्वयव्यतिरेकवताऽमुना हेतुना अधिष्ठानमात्रेऽनुमिते, तदधिष्ठानत्वे च देहेन्द्रियादौ प्रसक्ते पूर्वानुभूतसुखसाधनत्वानुसन्धानसव्य___ * धर्मिणी-पक्षः॥ 1 मित्थमु ख, मु-ख, इ-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy