SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 222 न्यायमञ्जरी तथाप्यतीव प्रविरलसंचारोऽसौ व्यवहार इत्यनुपादेय एव वैदिकशब्द व्युत्पत्तः ॥ [व्याकरणेनापि वेदार्थावधारणासंभवः] अथ व्याकरणस्य वेदाङगत्वात् ततः साध्वसाधुशब्दप्रविभागमवगच्छन्तः 'साधुभिर्भाषितव्यं, असाधुभिर्न' इति विधिनिषेधनियमितमतयः साधुभिरेव शब्दैर्व्यवहरन्तो विद्वांसः तनीयसैव क्लेशेन वैदिकेष्वपि शब्देषु व्युत्पत्तिमासादयेयुरिति कथ्यते- तदपि न चतुरश्रम् - इतरेतराश्रयप्रसङगात्। वेदे हि सिद्धप्रामाण्ये तदङगभूतव्याकरणाभ्याससमासादितसाध्वसाधुशब्दप्रविवेक वृद्धव्यवहारपरिचयपुरस्सरा वैदिकशब्देषुव्युत्पत्तिः। तद्व्युत्पत्तौ च सत्यां बोधकत्वादप्रतिपादकत्वलक्षणमप्रामाण्यमपोज्झतो वेदस्य प्रामाण्यमिति || __ [प्राकृतव्याकरणस्य वेदाङ्गस्वापत्तिः] अथ वेदाङगमिदमिति श्रद्धाम'वधूय यदृच्छाधीतेनैव व्याकरणेन पूर्वोक्तकार्यसिद्धेर्नेतरेतराश्रयमिति वर्ण्यते-किमिदानीं नाटकप्रकरणादि काव्योपयोगिसंस्कृतभाषाविशेषपरिज्ञानायैव प्राकृतलक्षणवव्याकरणमध्येतव्यम् ? तथाऽभ्युपगमेवाऽनङगत्वाविशेषात्-प्राकृतलक्षणप्रसिद्धशब्दव्यवहारानुसारेण वैदिकशब्दव्युत्पत्तिरापाद्यत इति सुतरां दुस्स्थत्वं ॥ अपि च सत्यपि व्याकरणाधिगमे, श्रुतेऽपि 'साधुभिर्भाषितव्यम्' इत्युपदेशे, *सत्यं वदत ! वेदार्थानुष्ठानपरायणोऽपि कृतबुद्धिरपि निषिद्धाचरणपराङमुखोऽपि श्रोत्रियोऽपि श्रद्दधानोऽपि यदि कश्चित् केवलैः ___ * 'सत्यं वदत-इति शपथवाक्यम्। व्याकरणादिपठनमात्रेण न कश्चित्तादृशो दृश्यत इति भावः ॥ 1 मन-क, 2 द-घ.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy