SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ आह्निकम् ३] गकारादिमेदस्य प्रत्यक्ष सिद्धत्वम् ( कृतं कान्तस्य तन्वङ्गया त्रिरपाङ्गविलोकनम् । चतुरालिङ्गनं गाढं अष्टकृत्वश्च चुम्बनम् ' इति-तद्भेदेऽपि दर्शनात् ॥ अथ तत्र स्त्रीपुंसयोरमे दे चुम्वनादिक्रियांमात्र भेद एवेत्युच्यतेतथाऽप्यपूर्वेषु ब्राह्मणेषु भुक्तवत्सु 'पञ्चकृत्वो ब्राह्मणा भुक्तवन्तः ' इति व्यवहारो 'दृश्यते ॥ [ शब्दभेदस्य प्रत्यक्षसिद्धत्वम् ] एवं शब्देऽपि तत्सङ्ख्याव्यवहारो हि दृश्यते' । कविना सदनुप्रासे निबद्धेऽक्षरडम्बरे ॥ २७८ ॥ गकारो बहवो दृष्टाः इति व्यवहरन्ति हि । यदपि प्रत्यभिज्ञानं तद्दारकमुदाहृतम् ॥ २७९ ॥ तस्यापि सिद्धे प्रामाण्ये जात्यालम्बनत्ता भवेत् । नृत्ताभिनयचेष्टादिप्रत्यभिज्ञानतो वयम् ॥ २८० ॥ न शब्दप्रत्यभिज्ञानमुत्तारयितुमीश्महे । विशेषं प्रत्यभिज्ञाने न पश्यामो ' मनागपि ॥ २८१ ॥ तद्भेदेऽपि – संख्याश्रयवस्तुभेदेऽपि । दर्शनात् कृत्वसुच्प्रत्ययस्येति शेषः ॥ , 1 ननु उच्चारणकर्मीभूतस्य शब्दस्यैक्यात् यथा 'अष्टकृत्व उच्चरितः शब्दः इति व्यवहारः, तथा चुम्बनकर्मीभूतस्यैक्या देवात्रापि कृत्वसुच्प्रयोग इत्याशंक्य समाधते - अथेति । अपूर्वेषु - प्रतिवारं मिन्नेषु ॥ 1 553 तद्द्द्वारकं - ऐक्यद्वारकम् । 'पूर्वमुञ्चरितो गकार: नष्टः, अन्योऽयं पुनरुश्चरित:' इत्येव सूक्ष्ममतीनां अनुभवात् - सिद्धे प्रामाण्य इति । 'यो यदौषधं दत्तं, तदेवाद्यापि दत्तम्' इत्यादौ तथा दर्शनादित्यर्थः । ' कैश्चित्तिरोहिते भावात् ' (पु. 526) इत्यादि समाधत्ते - नृत्तेति । उत्तारयितुं - विवेचयितुम् । अत्र हेतुमाह - विशेषमिति । तथा च शब्द- बुद्धि-क्रियाणां प्रत्यभिज्ञासु नास्ति कश्चिद्विशेष इति एतेऽनित्या एव । एवं तर्हि प्रत्यभिज्ञा दृश्यते - ख. 2 ' मनागपि - ख. ( उत्तरपुटेऽनुवर्तते ).
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy