SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ स्तोत्र - रास-संहिता 7 यत्क्षणं दृश्यते शुद्धं तत्क्षणं गतविभ्रम | स्वस्थचित्तं स्थिरीभूतं, निर्विकल्पं समाधिना ॥१३॥ स एव परमं ब्रह्म, स एव जिनपुंगवः । स एव परमं तत्त्वं स एव परमो गुरुः || १४ || स एव परमं ज्योतिः, स एव परमं तपः । स एव परमं ध्यानं, स एव परमात्मकम् ||१५|| . स एव सर्वकल्याणं, स एव सुखभाजनम् । स एव शुद्धचिद्रूपं स एव परमं शिवम् ॥ १६ ॥ स एव ज्ञानरूपो हि स एवात्मा न चाऽपरः । स एव परमा शान्तिः, स एव भवतारकः ||१७|| स एव परमानंदः, स एव सुखदायकः । स एव घन-चैतन्यं, स एव गुण - सागरः ||१८|| परमाह्लादसंपन्नं, राग-द्वेषविवर्जितम् । सोऽहं तु देहमध्यस्थो, यो जानाति स पण्डितः ||१९|| आकार-रहितं शुद्धं, स्वस्वरूपे व्यवस्थितम् । सिद्धमष्टगुणोपेतं, निर्विकारं निरंजनम् ||२०|| तत्समं तु निजात्मानं, यो जानाति स पण्डितः । सहजानंद - चेतन्यं, प्रकाशयति महीयसे ||२१|| पाषाणेषु यथा हेमं, दुग्ध-मध्ये यथा घृतम् । तिल - मध्ये यथा तेलं देह-मध्ये तथा शिवः ||२२|| काष्ठमध्ये यथा वह्निः, शक्तिरूपेण तिष्ठति । अयमात्मा शरीरेषु, यो जानाति स पण्डितः ||२३|| आनन्द-रूपं परमात्मतत्त्वं, समस्तसंकल्पविकल्प- मुक्तम् । स्वभावलीना निवसन्ति नित्यं, जानाति योगी स्वयमेव तत्त्वम् ॥२४॥ ये धर्मशीला मुनयः प्रधानास्, ते दुःखहीना नियतं भवन्ति । संप्राप्य 58
SR No.002264
Book TitleStotra Ras Samhita
Original Sutra AuthorN/A
AuthorLalitprabhsagar, Chandraprabhsagar, Bhanvarlal Nahta
PublisherSiddhiraj Jain
Publication Year1986
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy