SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ मंत्राधिराज-स्तोत्र जगदीश्वरम् । ॐ ह्रीं क्लीं श्रीं समायुक्तम्, केवलज्ञानभास्करम् ॥१९|| पद्मावत्यान्वितं वामे, धरणेन्द्रण दक्षिणे । परितोऽष्टदलस्थेन मंत्रराजेन संयुतम् ||२०|| अष्टपत्रस्थितैर्यस्य, नमस्कारैस्तथा त्रिभिः । ज्ञानाद्यर्वेष्टितं नाथं, धर्मार्थकाममोक्षदम् ॥२१॥ शतषोडशदलारूढं, विद्यादेवीभिरन्वितम् । चतुर्विंशतिपत्रस्थं, जिनं मातृसमावृतम् ॥२२॥ माया वेष्ट्यत्रयाग्रस्थं, क्रौंकारसहितं प्रभुम् । नवग्रहावृतं देवं, दिक्पालैर्दशभिवृतम् ॥२३॥ चतुष्कोणेषु मंत्राद्यचतुर्बीजान्वितैजिनः । चतुरष्टदशद्वीति द्विधाङ्कसंज्ञकैयुतम् ||२४|| दिक्षुक्षकारयुक्तेन, विदिक्षु लांकितेन च । चतुस्रण वज्राङ्क-क्षितितत्त्वे प्रतिष्ठितः ।।२५।। श्री पार्श्वनाथमित्येव, यः समाराधयेञ्जिनम् । तं सर्वपापनिर्मुक्तम्, मजते श्रीः शुभप्रदा ॥२६|| जिनेशः पूजितो भक्त्या, संस्तुतः प्रस्तुतोऽथवा । ध्यातस्त्वं यः क्षणं वापि सिद्धिस्तेषां महोदयः ॥२७॥ श्रीपार्वमन्त्रराजान्ते चिन्तामणिगुणास्पदम् । शान्तिपुष्टिकरं नित्यं, क्ष द्रोपद्रवनाशनम् ।२८। ऋद्धिसिद्धिमहाबुद्धि-धृतिश्रीकान्तिकीर्तिदम् । मृत्युञ्जयं शिवात्मानं जपन्नानन्दितो जनः ॥२९|| सर्वकल्याणपूर्णः स्यात्, जरामृत्युविवर्जितः । अणिमादिमहासिद्धिं लक्षजापेन चाप्नुयात् ||३०|| प्राणायाममनोमंत्र-योगादमृतमात्मनि।तमात्मानं शिवंध्यात्वात, स्वामिन् सिध्यन्ति जन्तवः ||३१|| हर्षदः कामदश्चेति
SR No.002264
Book TitleStotra Ras Samhita
Original Sutra AuthorN/A
AuthorLalitprabhsagar, Chandraprabhsagar, Bhanvarlal Nahta
PublisherSiddhiraj Jain
Publication Year1986
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy