SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ जिनदत्तसूरि अष्टकम् || जिनदत्तसूरि अष्टकम् ॥ सुरकिन्नरवंदितपत्कमलं सकलं समलंकृतभूमितलम् । गतपापमलं चरितैर्विमलं जिनदलगुरु प्रणताऽविरलम् ||१||भुवनत्रयसारियशः पटलं खलमंडलखंडनतः प्रबलम् । विषमायुधवर्गदलं सरलं जिनदत्तगुरुं प्रणमामि कलम् ||२|| विषमस्थलपातिजनोद्धरणं शरणं महसां भविनां शरणम् । हरणं तमसांकमलाकरणं प्रणमामि गुरुं शरणं प्रबलम् ॥३|| वरपालितदुष्करसच्चरणं सुरमानुषकीर्तितसंच्चरणम् । जितदुर्जयचंचलभृत्करणं सुगुरु प्रणमामि लसत्करणम् ॥४|| नरपैर्महितं मुनिपैर्विनुतं प्रमदैरहितं क्षमया सहितम् । न परैश्चलितं न मयैस्खलितं प्रणमामि गुरु भुवने विदितम् ||५|| परमागमस्वच्छमति प्रथितं रमया ललितं सुजनैमिलितम् । सरसै कथितं रुचिभिर्लसितं प्रणमामि गुरु कविमिर्ध्वनितम् ॥६॥ भवतापहरं शिवशकरं धनधान्यभरं कृतमुत्प्रचुरम् । करुणानिलयं मुनिप्राग्रहरं जिनदत्तगुरु प्रणमामिवरम् ||७|| वरवाछगमंत्रिसुतं सुपदं कृतवाहडदेविमनः प्रमुदम् । विगतव्यसनं हितदं समुदा मुनिराजमहं प्रणमामि सदा ||८|| श्रीमच्छ्रीजिनदत्तसूरिसुगुरोः कल्याणवल्लीतरोलब्धेरेकनिधेः सुबुद्धिजलधे षांनिधेश्चिन्निधेः । प्रत्यूषे विधिना समर्थमुनिना दृब्धं गुरोरष्टकं ये ध्यायन्ति नरा भवन्ति सततं वागीश्वराः श्रीधराः ॥९||
SR No.002264
Book TitleStotra Ras Samhita
Original Sutra AuthorN/A
AuthorLalitprabhsagar, Chandraprabhsagar, Bhanvarlal Nahta
PublisherSiddhiraj Jain
Publication Year1986
Total Pages148
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy