________________
काव्यमाला।
भियाभ्रमूवल्लभवाहनारेः प्रणश्य शङ्के शरणं श्रयन्तः । लघूभवन्मन्दरमुख्यशैलाः पुरस्य रेजुर्मणिहेमगेहाः ॥ ११९ ॥ पुरस्य मणिहेममया गेहाः सौधा रेजुर्भान्ति स्म । तत्रैवमहं शङ्के विचारयामि । अभ्रमूनामा हस्तिनी । अभ्रमशब्दो दीर्घोकारान्तोऽप्यस्ति । 'गजानामभ्रमूपतिः' इति काव्यकल्पलतायाम् । तथा 'अभ्रमूवल्लभारूढम्' इति पाण्डवचरित्रेऽपि । तस्या वल्लभो भर्ता ऐरावणः स एव वाहनं यानं यस्येन्द्रस्य स एवारिः शत्रुस्तस्य मिया भयेन प्रणश्य स्वस्थानानंष्ट्वा पुरस्य शरणमाश्रयन्तो भजन्तस्तथा लघूभवन्तः स्वल्पतनवः संपद्यमाना मन्दरमुख्याः । मन्दरो जैनमते मेरुः । शैवशासने तु मन्दरोऽन्य, इन्द्रकीलनामा मन्था नगः स एव प्रधानं येषु ते शैलाः पर्वता इव ।इह पुरे शत्रुप्रवेशाभावे कारणद्वयमाह-किंभूतस्य पुरस्य । अर्कस्य' मानोरंशवः किरणास्तेषां संपर्कः संगमस्तेन च. यस्य वप्रस्य प्राकारपीठभूमिकासंदृव्धेभ्योऽर्ककान्तेभ्यः सूर्यकान्तमणिभ्य उद्भूतः प्रकटी. भूतो योऽनलो वहिस्तेनोमावनसंनिभस्य बाणासुरपुरसदृशस्य । तत्र हि वह्निप्राकारो. ऽस्तीति ख्यातिः । तथा 'यथोह्यमानः खलु भोगिभोजिना प्रसह्य वैरोचनिपुत्रपत्तनम् । विदर्भजाया मदनस्तथा मनोऽनलावरुद्धं वयसैव वेशितः ॥' इति नैषधे । एतत्काव्यो. परि पुरावृत्तमुच्यते-पूर्व हि स्वीकार्यादन्यत्राजेयो भावीत्याराद्धगौरीपतिसुपर्वदत्तवरस्य बाणासुरस्य उघानान्या कन्यया गौरी कुलदेवीमाराध्य मम को भर्ता भविष्यतीति प्रश्ने कृते प्रद्युम्ननन्दनोऽनिरुद्धो भावीति गौर्या प्रोक्ते कथंचित्कुमारिकया स आनाय्य परिणीतः।तामादाय गच्छन्तं ज्ञातव्यतिकरो बाणस्तं निर्जित्य नागपाशैर्वद्धवान् । तत उषया कृष्ण. प्रद्युम्नादयः तद्वाचिकं विज्ञापिताः । ततः कृष्णरामप्रद्युम्ना गरुडमारुह्य पावकप्राकारेऽपि बाणपरे गत्वा हरिर्बाणासुरं शतखण्डीकृत्योषायक्तमनिरुद्धमादाय द्वारिकायामगादिति । पुनः किंभूतस्य । गेहानां पुरसौधानामग्रशृङ्गाणि उपरितनशिखराणि तेषु तिष्ठन्तीति तत्स्था गजद्विषन्तः सिंहास्तैः । पुरमन्दिरेष्वपि केसरिणां सद्भावो यथा-'यदनेककसौधकंधरा हरिभिः कुक्षिगतीकृता इव' इति नैषधे । कथंचनापि महता प्रयासेनापि द्वेष्यैवैरिभिरधृष्यस्यानाकलनीयस्य । गजयानस्य हि सिंहाङ्कितमार्गे समागमनमशक्यम् । कृशानौ तु सर्वथा प्रवेशोऽपि न स्यादत एतत्पुराश्रयणं शत्रुभयाभावात् ॥ युग्मम् ॥
बालारुणज्योतिरखर्वगर्वनिर्वासिमाणिक्यनिकाय्यकोटिः । व्यक्तीभवन्भात्यनुभूपकान्तं पुरश्रियोद्गीर्ण इवानुरागः ॥ १२० ॥ बालारुणस्याभ्युदयद्भानोज्योतिषां कान्तीनामखर्वमतिशयितं गर्वमहंकारं निर्वास. यन्ति निष्कासयन्ति निर्नाशयन्तीत्येवंशीलानि यानि माणिक्यानि पद्मरागमणयः निका. य्यानां तन्मयानां गृहाणां कोटिविभाति शोभते । क्वापि माणिक्यशब्देन केवलरत्नमेव । कुत्रापि माणिक्यशब्देन पद्मरागमणयः । 'रत्नं वसु मणिर्माणिक्यमपि' इति हैमीवृत्तौ । 'आघ्रातं परिचुम्बितं परिमुहुर्तीदं च यच्चवितं यहूरं निहितं च नीरसतया तत्र व्यथां